________________
MIND
गुप्तिस्वरूपं
श्रीतस्वार्थ
हरि० ९अध्या०
माथनमन्यतो गृहस्थादेराहारोपनि विवक्षा । वाग्गुप्तिविषयप्रदर्शनमाह
| हितवाक्यशुद्ध्यनुसारिणो
Hinoun HIndu MINiu
व मानाचक्षीत, एवंविधा प्रकल्पग्रन्थाभिहितातोऽवगमनवैद्यसलासनाच्छादित
| पारः तथापि कायचेष्टायाः साक्षात् कायेनैव निष्पादितत्वादहिरुपलक्ष्यमाणत्वाच्च प्राधान्येन विवक्षा । वाग्गुप्तिविषयप्रदर्शनमाह || -याचनेत्यादि (१८४-२) याचन-प्रार्थनमन्यतो गृहस्थादेराहारोपधिशय्यानां, तच्च मुखवसनाच्छादितवक्रदेशस्य प्रवचनविहितवाक्यशुद्ध्यनुसारिणो भाषमाणस्य वाग्गुप्तिर्भवति, तथा पृच्छनमाचरतोऽवगमनवैद्यसन्देहविच्छेदादिविषयमागमविधिभाजो | वाग्गुप्तिः, तथा धर्ममाचक्ष्वेति पृष्टः श्राद्धेन केनचित् प्रकल्पग्रन्थाभिहितनीत्या व्याकुर्यात् सम्यगुपयुक्तः, अन्यद्वा सावद्यमनवयं वा पृष्टः समाधाय लोकागमाविरोधेनाचक्षीत,एवंविधः पृच्छनादिविषयो वानियमो वाग्गुप्तिः, मौनम्-अभाषणमेव वा वाग्गुप्तिरिति, आह च-"अनृतादिनिवृत्तिर्वा मौनं वा भवति वाग्गुप्तिः।" मनोगुप्तिस्वरूपाख्यानायाह-सावयेत्यादि (१८४-३) अवयं-गर्हितं पापं सहावद्येन सावद्यः संकल्पः-चिन्तनमालोचनमार्त्तरौद्रध्यायित्वं चलचित्ततया वा यदवद्यवचिंतयति तस्य निरोधः-अकरणमप्रवृत्तिर्मनोगुप्तिः, तथा च कुशलसंकल्पानुष्ठानं सरागसंयमादिलक्षणं येन धर्मोऽनुबध्यते यावान् वाऽध्यवसायः कर्मोच्छेदाय यतते सोऽपि सर्वः कुशलसंकल्पो मनोगुप्तिः,अथवा न कुशले-सरागसंयमादौ प्रवृत्तिः नाप्यकुशले-संसारहेतौ योगनिरोधावस्थायामभावादेव मनसो गुप्तिः मनोगुप्तिः, तत्काले च ध्यानसंभवात् सकलकर्मक्षयार्थ एवात्मनः परिणामो भवतीति । एवं कायादिनिरोधात्तन्निमित्तकाश्रवणेऽसति संवरप्रसिद्धिरुक्ता, संप्रति चेष्टावतोऽपि संवरसिद्ध्यर्थमिमाः पंच समितयोऽभिधीयंते, आह च"तद्गुणपरिशुद्ध्यर्थ मिक्षोर्गुप्तीर्जगाद तिस्रोऽर्हन् । चेष्टितुकामस्य पुनः समितीः प्राजिज्ञपत् पंच ॥१॥"
र्याभाषैषणाऽऽदाननिक्षेपोत्सर्गाः समितयः॥९-५॥ सूत्रम् ।। अनन्तरसूत्रात् सम्यग्ग्रहणमनुवर्तते, तत् प्रत्येकममिसम्बन्धनीयं, समितिग्रहणं च, ईरणमीर्या-गतिः परिणतिः सम्यग्
MANOHINICH Misalmanoi Mundialism
॥४२६॥
॥४२६॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org