________________
MungHAN
श्रीतचार्थ
हरि० । ९ अध्या०
| रागमतः, तथाऽयं संरक्षितः कायो नात्मानमुपहंति, एवं वाङ्मनोगुप्योरपि व्याख्या, इतिशब्दोऽवधारणार्थः, त्रिविध एव मूल| भेदतो योगः, तत्र तेषु योगेषु निग्रहीतव्येषु काययोगनिग्रह एव तावदुच्यते, शयनम्-(१८४-१) आगमोक्तो निद्रामोक्ष- Rगुमिस्वरूपं कालः, स च रात्रावेव, न दिवा अन्यत्र ग्लानादेः,तत्रापि क्षणदायाः प्रथमे यामे अतिक्रान्ते गुरुमापृच्छय प्रमाणयुक्तायां वसता| वेकस्य साधोहस्तत्रयप्रमिते भूप्रदेशे सभाजनस्य च यत्रावस्थानं सकलावकाशपूरणं च सा प्रमाणयुक्ता, तत्र प्रमृज्य स्वावकाशं प्रत्यवेक्ष्य संहृत्यास्तीर्य संस्तरणपट्टकद्वयमूर्ध्वमधश्च कायं प्रमृज्य सपादं मुखवस्त्रिकारजोहृतिभ्यामनुज्ञापितसंस्तारकावस्थानः कृतसामायिकनमस्कृतिः वामबाहूपधान आकुंचितजानुकः कृकवाकुवद्वियति प्रसारितजंघो वा प्रमार्जितक्षोणीतलन्यस्तचरणो वा भूयः संकोचसमये प्रमार्जितसंदंशकमुद्वर्तनकाले च मुखवत्रिकाप्रमृष्टकायो नात्यन्ततीव्रनिद्रः शयीत, आसनं-निवेशनं यत्र भूप्रदेशे विवक्षितं तं प्रत्यवेक्ष्य चक्षुषा प्रमृज्य च रजोहत्या बहिर्निषद्यामास्तीर्य निविशेत, निविष्टोऽप्याकुंचनप्रसारणादि पूर्ववत् कुर्वीत, वर्षादिषु च वृसिकापीठकाद्यमुयैव सामाचार्या प्रत्युपेक्ष्य प्रमृज्य च सन्निवेशनं कुर्यात् , आदाननिक्षेपौ च दण्डकोपकरणचेष्टाभाजनादिविषयौ, तावपि प्रत्युपेक्षणप्रमार्जनपूर्वको निरवद्यौ भवतः, तथा स्थानम्-ऊर्ध्वस्थितिलक्षणमवष्टम्भादि वा सुप्रत्युपेक्षितप्रदेशविषयं पिण्डीकृतवस्त्राधन्तर्धानमवष्टम्भादि च निरवचं, चंक्रमणं-गमनं तदपि प्रयोजनवतः पुरस्तायुगमात्रदेश| सन्निवेशितदृष्टेरप्रमत्तस्य स्थावराणि जंगमानि च भूतानि परिवर्जयतोऽत्वरया पदन्यासमाचरतः प्रशस्तं, एवमेतेषु गमनादिविपयेषु कायकृतचेष्टायाः-कायव्यापारस्य नियमो व्यवस्थानिग्रहः, एवं कर्त्तव्यमेवं न कर्त्तव्यमिति, उक्तं च-"कायक्रियानिवृत्तिः
॥४२५॥ कायोत्सर्गः शरीरगुप्तिः स्यात् । दोषेभ्यो वा हिंसादिभ्यो विरतिर्मनोगुप्तिः ॥१॥" अत्र च यद्यपि मनोव्यापारसंसृष्टः कायव्या
॥४२५॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org