________________
श्रीतत्वार्थ
गुप्तिस्वरूपं
हरि०
९अध्या०
सम्यग्योगनिग्रहो गुप्तिः ॥९-४ ॥ सूत्रम् ॥ | भाष्यकारस्त्वन्यथा कियता विशेषेण सम्बन्धमाह-अत्राहोक्तमित्यादि (१८३-१०) गुप्यादिभिः संवरो भवतीत्यत्रावसरे कश्चित् प्रश्नयति, उक्तं भवता गुप्यादिभिरभ्युपायैः संवरो भवति, तत्र तेषु संवरकारणेषु के गुत्यादयः, किंखरूपा गुप्त्यादय इति ?,अत्रोच्यते-प्रतिपादयितुर्वचनम् , अत्र प्रश्न निर्वचनमभिधीयते, सम्यग्योगनिग्रहणे गुप्तिरिति, सम्यक् प्रशस्तो मुमुक्षो. योगनिग्रहो गुप्तिरात्मसंरक्षणं,योगा मनोवाकायलक्षणास्तेषां निग्रहो निगृहीतिः, प्रवचनविधिना मार्गव्यवस्थापनमुन्मार्गगमननिवारणं चेत्यतो योगनिग्रहविशेषणार्थ सम्यगिति, सम्यग्-आगमानुसारेणारक्तद्विष्टपरिणतिसहचरिष्णोर्मनोव्यापाराः वाकायव्यापाराश्च ।। | निर्व्यापारता वा वाक्काययोनिग्रहो गुप्तिर्भवति, न पुनस्तस्करस्येव प्रत्ययाग्रशो गाढबंधनबद्धस्यातिपीडितहृदयप्रदेशस्य संपुटितन
ऋविवरस्य पराधीनात्मनोऽनिवृत्तौ योगनिग्रह इष्यते ।। सम्प्रति भाष्येण सूत्रार्थ स्पष्टयन्नाह सम्यगित्यादि(१८३-१२) सम्य| गिति शब्दस्यार्थमाचष्टे, विधानत इति, सभेदं विज्ञाय योग, तत्र काययोगस्यौदारिकवैक्रियाहारकतैजसकार्मणभेदाः संभविनः, वाग्योगस्य सत्यामृषादयः, मनसः सावद्यसंकल्पादयः, ज्ञात्वा-आगमंतो यथावदवबुध्य अभ्युपेत्य सम्यग्दर्शनपूर्वकमिति प्रतिपद्य च भावत एवमेते योगाः परिणताः कर्मबन्धाय एवं च कर्मनिर्जराय, सम्यग्दर्शनपूर्वकमित्यभ्युपगमक्रियाविशेषणं, प्रशमसंवेगनिर्वेदास्तिक्यानुकंपाभिव्यक्तिलक्षणं सम्यग्दर्शनं तत् पूर्व यस्याभ्युपगमस्येति, त्रिविधस्य योगस्येति, मूलभेदाख्यानमुत्तरभेदानां मूलानतिलंघित्वात् परिग्रहः, निग्रहः स्वबशे व्यवस्थापन, स्वातन्त्र्यप्रतिषेधेन मुक्तिमार्गानुकूलपरिणामो गुप्तिः संरक्षणं भयानकात् कर्मबन्धशत्रोः, त्रैविध्यप्रतिपादनायाह-कायगुप्तिर्वाग्गुप्तिमनोगुप्तिरिति । कायस्य गुप्तिः-संरक्षणमुन्मार्गगति
एव यस्याभ्युपगमस्येति, त्रिविलम्युपगमक्रियाविशेषणं,
॥४२४॥
लाचत्वात् परिग्रहः, निग्रहः स
॥४२४॥
|| भयानकात
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org