________________
श्रीतार्थ - हरि०
९ अध्या०
॥४२३॥
Jain Education International
तत्त्वार्थश्रद्धानलक्षणे सम्यक्त्वे न भवति मिथ्यादर्शनप्रत्ययः कर्म्माश्रव इत्येवमेते गुप्यादयः संवर हेतवः - अभ्युपायाः सम्पद्यन्त इति । अथ किमेभिरेव गुप्यादिमिरेष संवरो निष्पाद्यते ? उतापरेणापि केनचिदित्याह-किं चान्यदिति (१८०-६) अनेन कारणान्तरममिसम्बभाति, न गुप्यादय एव केवलाः संवरणसमर्थाः, किंचान्यदपि तपोलक्षणं संवृतेः कारणमस्तीति प्रदर्शय माह-
तपसा निर्जरा च ।। ९-३ ।। सूत्रम् ।।
पृथग्योगकरणं उभयहेतुत्वात् ; तपसोऽमिनवकर्म्मप्रवेशाभावः पूर्वोपचितकर्म्मपरिक्षयश्च तप्यत इति तपः, सेव्यत इतियावत्, तपति वा कर्त्तारमिति तपः, तपसेति करणे तृतीया, निर्जरणं निर्जरा--विपक्कानां कम्र्म्मावयवानां परिशटनं, हानिरित्यर्थः, तपसाssसेव्यमानेन कर्माण्यात्मप्रदेशेभ्यो विघटंत इतियावत्, कर्तुः सन्तापकत्वाद्वा शुष्करसं कर्म्मातिरूक्षत्वाभिः स्नेहबन्धनं परिशटतीत्यर्थः चशब्दः प्रस्तुतसंवरानुकर्षी, तपसा संवरश्व क्रियते, अनशनप्रायश्चित्तध्यानादितपोयुक्तोऽवश्यंतयैव संवृताश्रवद्वारो भवतीति । तपो द्वादशविधं वक्ष्यत इत्यादि (१८०-६) भाष्यं, द्वादश विधा:- प्रकारा यस्य तद्वादशविधं तपः उपरिष्टादिहैवाध्यायेऽभिधास्यते, बाह्यमनशनादि षोढा अभ्यन्तरं च प्रायश्चित्तादि पोढा, तेन द्वादशभेदेन तपसा करणतामापभेनोक्तलक्षणः संवरो भवति, आगन्तुककर्म्माभावप्रतिपादनं, निर्जरा च भवतीति, चिरन्तनबद्धकर्माभावप्रतिपत्तिः, एवमिदमुभयस्य संवरनिर्जरालक्षणस्य हेतुभूतं तपो भवतीति ।। आह-अस्मिन् भारते वर्षे साम्प्रतिकपुरुषाणामल्पवीर्यत्वात् सकलयोगनिरोधलक्षणसंवरात्यये गुप्यादिसामर्थ्यात् परिस्पन्दवतामपि संवरास्तित्वमाश्रीयते यदि ततस्त एव स्वरूपतोऽभिधेया इति क्रमेण गुत्यादिस्वरूपनिर्णयः कार्यः, तत्र तावत् गुप्तिस्वरूपमेवोच्यते
For Personal & Private Use Only
तपसा
संवरनिर्जरे
॥४२३॥
www.jainelibrary.org