________________
श्रीतच्वार्थ हरि०
नादिः, अनादिमिथ्यादृष्टिः,अप्राप्तपूर्वसम्यक्त्वलाभ इत्यर्थः, तस्य अनादिमिथ्यादृष्टेरपि, अपिशब्दात् सादिमिथ्यादृष्टेरप्यवाप्तसम्यक्त्वपरित्यागिनः पुनस्तल्लाभे 'सत' इति सद्वत्तस्य, क्लिष्टसचाचरितातिकान्तभावस्य, किमित्याह-'परिणामविशेषा'-IR| निसर्ग| दिति परिणामः-अध्यवसायश्चित्तं,तस्य विशेषः स एव वा, पूर्व पूर्व जघन्यमङ्गीकृत्य परः परः शुभो विशेष इत्युच्यते, परिणा- माध्रिगमों मविशेषश्चेह यथाप्रवृत्तकरणमभिमतं,ततः परमपूर्वकरणं,अप्राप्तपूर्व तागध्यवसायान्तरं जीवेनेत्यपूर्वकरणमुच्यते ग्रन्थि विदारयतां, ततश्च ग्रन्थिभेदोत्तरकालभाव्यनिवर्तिकरणमासादयति, यतस्तावन्न निवर्त्तते यावत् सम्यक्त्वं न लब्धमित्यतोऽनिवर्तिकरणं,ग्रन्थान्तरप्रसिद्धत्वाद्भाष्यकारेण अनिवत्ति नोपा करणं, अवश्यंतया च सम्यग्दर्शनं लभमानस्तल्लभत इति काका अभ्युपेतं, तदभावेऽभावात् , अत एवाह-अपूर्वकरणं व्यावर्णितलक्षणं 'ताहरभवति' तागिति यद् यथाप्रवृत्तकरणस्य कार्यमनिवृत्तिकरणस्य |च कारणं येनास्य जीवस्य. अनुपदेशादित्युपदेशमन्तरेण, विशिष्टबाह्यनिमित्ताभावोपलक्षणमेतत् , तथाभव्यत्वादिभावतः। | आभ्यन्तरदोपोपशमप्राधान्यात् , अन्यदपि विशिष्टं बाह्य निमित्तमन्तरेण 'सम्यग्दर्शनं' यथोदितस्वरूपमुत्पद्यते अभिव्यज्यते, स्वत एव कथंचिद्धातुप्रागुण्याद्रोगोपशान्तिवद् , इत्येतदेवंविधं 'निसर्गसम्यग्दर्शन मिति निगमनं, उक्तं निसर्गसम्यग्दर्शनम् । अधुना अधिगमसम्यग्दर्शनमभिधातुमाह-'अधिगम इत्यादि, गमो ज्ञान,अधिको गमः अधिगमः,आधिक्यं सामान्येन परोपदेशादुत्पत्तेः, अधिगमस्त्वसारः संसारः इत्यन्वयालोचनेन, आगमोऽपि सारोऽपवर्ग इति व्यतिरेकालोचनेन, निमित्तमित्युपदेशस्य प्रतिमादि, तद्दर्शनजो बोधोऽपि निमित्तमआयुर्वृतमिति यथा, श्रवणमिति श्रुतिः प्रतिमादेरेव भूपादिवर्जनाकर्णनोत्थो बोध एवेत्यर्थः, शिक्षेति स्वयमेवाप्तप्रणीतागमाभ्यासः, उपदेश इति गुरुलक्षणयुक्तात् गुरोधर्मदेशना,
mangalouamnSmall Punetimesnews
॥२५॥
॥ २५॥
Education
For Personal Private Use Only