________________
सूत्रं ३ अध्यवसायाः
श्री तयार्थ- देशः सह कर्मणः प्रनष्टस्व विभागोऽविशिष्टमेकपिंडता, तस्यैव कम्मण उदयावलिकाप्रविष्टस्योदयो विपाकः,तस्यैव चोदयानुभवसहरि० वृत्ती है। मनन्तरं परिशाटो निजरेति,बन्धादयः कृतद्वन्द्वाः, ताः अपेक्ष्यंत इति कर्मण्यत् , बन्धनिकाचनोदयनिर्जरापेक्षं, किं तत् ?-फलं, १ अध्या०
कथं पुनः तत् फलं बन्धाद्यपेक्ष?, तत उच्यते, यतो बन्धादिष्वसत्सु न तत्सम्नमति, क्वानुभवत इत्याह-नरके'त्यादि, नरकति| रश्चोर्योनिः-उत्पत्तिस्थानं, तच्च द्वितीये वक्ष्यति, मनुष्याश्च अमराश्च मनुष्यामरास्तेषां भवः-प्रादुर्भावः, ते भवंति यत्र ग्रहणानि | आदानादीनि, तच्छरीरग्रहणानीत्यर्थः, तेषु तेषु भवेषु अनादिसंसारात्मसु, विविधमित्यनेकविध, यतः सातसम्यक्त्वहास्यादिकाः प्रकृतयो विविधास्तासा फलमपि विविधमेवेति, तथा ज्ञानावरणाद्या अपि विविधास्तत्फलमपि विविधमुच्यते, पुण्यमनुग्रहकारि सातादि, पापमुपघातकारि ज्ञानादिगुणानां, तयोः पुण्यपापयोः फलं स्वरतविकाररूपं पुण्यपापफलं तदनुभवतो जीवस्योपभुञ्जानस्य, अनु पश्चादथे, पूर्व ग्रहः पश्चात् फलोपभोग इति, कथमनुभवत इत्याह-'ज्ञानदर्शनोपयोगस्वाभाव्यात्' ज्ञानदर्शने व्याख्याते, तयोः स्वाभाव्यं तस्मात् ज्ञानदर्शनोपयोगस्खाभाब्यादिति, एतदुक्तं भवति-यदा यदोपभुक्ते तदा तदा चेतयते सुख्यह दुःखितोऽहमित्यादि, साकारानाकारोपयोगद्वयसमन्वितत्वादवश्यतया चेतयत इति, उत्तरग्रन्थेनापि सम्बन्धोऽस्य तानीत्यादिना, ज्ञानदर्शनोपयोगस्वाभाव्यादेव तानि तान्यनिर्दिष्टस्वरूपाणि परिणामेनाध्यवसायस्थानान्तराणि-परिणामाध्यवसायस्थानान्तराणि, परिणामेन न निरन्वयोच्छिच्या, निरन्वयोच्छित्तौ हि कार्यभावे तचतोऽसत् सद्भवति, न च सर्वथा असतः शक्तिप्रतिनियमः, ततः कार्यान्तरवत्तदभावप्रसङ्ग इति भावनीय, अध्यवसायस्थानान्तराणि चानुकम्पादिगर्भाणि मलीमसमध्यमतीव्राणि पारम्पर्येण| | सद्दर्शनवीजभूतानि बोधरूपाणि गृह्यन्ते, तानि गच्छतः-प्राप्नुवतः, किम्भूतस्य सत इत्याह-'अनादी'त्यादि, नास्यादिरस्तीत्य
॥२४॥
॥ २४॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org