________________
श्रीतच्चार्थहरि० ९ अध्या०
॥४२१ ॥
Jain Education International
सर्वसंवराभावः साम्प्रतिकानामित्यनुमनुमहे, देशसंवरस्तु सामायिकादिचारित्रवतां, सत्यपि परिस्पन्दवच्वे विदिततच्चानां देशसंवरः समस्त्येवेति तत्प्रतिपादनायाह
सगुप्तिसमितिधर्मानुप्रेक्षापरीषहजयचारित्रैः ।। ९-२ ।। सूत्रम् ।।
अथवा आश्रवनिरोधलक्षणः संवर उक्तः, स पुनः केनोपायेन कर्त्तव्य इत्युपायस्य दर्शनार्थमिदं सूत्रं स गुप्तीत्यादि, स इत्येनेन सर्वनाम्ना प्रक्रान्तं संवरं परामृशति, गुप्यतेऽनयेति गुप्तिः, संरक्ष्यतेऽनयेत्यर्थः, संवृण्वतो हि गुप्यादयः करणीभवन्ति, सम्यग्गतिहेतुत्वात् समितयो गतिरिति सकलक्रियोपलक्षणं, सर्वज्ञप्रणीतज्ञानानुसारिण्यश्रेष्टाः संवरमादधति, नरकादिकुगतिप्रपा| दधारणाद्धर्म्मः क्षमादिदशलक्षणकः, अनुप्रेक्षणम्-अनुचिन्तनमनुप्रेक्षा, अनुप्रेक्ष्यन्ते - भाव्यन्त इति वाऽनुप्रेक्षा:, तादृशानुचिंतनेन तादृशीभिर्वा वासनाभिः संवरः सुलभो भवति, समन्तादापतिताः क्षुत्पिपासादयः सान्त इति परिपहाः, परिसहा इति कः शब्दसंस्कारः १, न तावत् पचाद्यच् कर्त्तरि विहितत्त्वांत्, न कर्म्मसाधनो, घञवृद्धिपसंगात् पुंसि संज्ञायां घ इति चेन्न, तस्य करणाधिकरणयोर्विधानात् उच्यते, “कृत्यलुटो बहुल " मिति वचनात् कर्म्मण्येव घन् प्रत्ययः, उपसर्गस्य 'घन्यमनुष्ये बहुल'मितिबहुलवचनाद् घञि चान्यत्र च दीर्घत्वं शिष्टप्रयोगानुसरणात्, परीषहाणां जयो- न्यक्करणमभिभवः परीषहजयः, चर्यते तदिति चारित्रं, पृषोरादित्वाद्वा अष्टविधकर्म्मचयरिक्तीकरणाच्चारित्रं - सामायिकादिपंचभेदं, गुप्यादीनां चारित्रान्तानां द्वन्द्वः, एभिर्गुत्यादिभिः करणभूतैः संवरोऽवाप्यत इति ।। सम्प्रति भाष्यमनुश्रियते - स एष संवरः एभिर्गुप्यादिभिरभ्युपायैर्भवति | (१८३ - ६) प्रस्तुतसंवरसम्बन्धनार्थस्तच्छन्दः, स संवरः आश्रवनिरोधलक्षणः, एष इत्यनेन मनसि व्यवस्थापितः, एभिर्गुप्या
For Personal & Private Use Only
संवसेपायाः
॥४२१॥
www.jainelibrary.org