SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ श्रीतस्वार्थहरि० ९ अध्या० ॥४२०|| Jain Education International J श्रीतत्त्वार्थवृत्तौ नवमोऽध्यायः नमोऽर्हते नमः श्रुतदेवतायै भगवत्यै नमः सर्वज्ञागमाय । उक्तो बन्धः, संवरं वक्ष्याम (१८३-१) इत्यनेनाध्यायसम्बन्धमाह भाष्यकारः । उक्तः प्रपंचेन प्रतिपादितोऽनादिसन्ततिरष्टविधः कर्म्मबन्धः, स च पौरुषेयः, पौरुषेयत्वादेव कदाचिदत्यन्तमुच्छिद्यतेऽपि पुंसा समासादिततदुच्छेदसाधनेन आत्यन्तिकं श्रयमापाद्यत इति, तत्र पूर्वोपचितकर्म्मजाल विच्छेदाय तपसा निर्जरा | चेति कार्त्स्न्येनोच्छेदं वक्ष्यति, अपूर्व कर्म्मावयवप्रवेशनिवारणाय तु संवरमेव तावद् वक्ष्यामः आश्रवनिरोधः संवरः ।। ९-१ ।। सूत्रम् ॥ आश्रूयते - समादीयते यैः कर्माष्टविधमाश्रवाः ते कर्मणां प्रवेशवीथयः कायादयस्त्रयः इन्द्रियकषायाव्रतक्रियाश्च पञ्चचतुःपंच| पञ्चविंशतिसंख्यास्तेषां निरोधो - निवारणं स्थगनं संवरः, पर्यायकथनेन व्याख्या, यथोक्तस्येत्यादि (१८३-३) भाष्यं, षष्ठेऽध्याये कायादिराश्रवोऽभिहितोऽनेकप्रकारः, तस्य काययोगादेराश्रवस्य द्वयधिकचत्वारिंशद्भेदस्य निरोधो यः स संवरः, आत्मनः कर्मादानहेतुभूतपरिणामाभावः संवर इत्यभिप्रायः, अतो यावत् किंचित् कम्र्मागमनिमित्तं तस्याभाव:, स च सर्वदेशमेदाद्विधा, वादसूक्ष्मयोगनिरोधकाले सर्वसंवरः, शेषकाले चरणप्रतिपत्तेरारभ्य देशसंवरपरिणतिभागात्मा भवतीति, अत्राह - यदि सकलाश्रवद्वारस्थगनलक्षणः संवरस्ततः सर्वकर्म्मनिमित्ताश्रवच्छिद्रसंवुवृर्षा कतिपय पुरुषसाध्यैव प्रसजति, अशेषस्य परिस्पन्दस्य निरा चिकीर्षितत्वात्, अतः समचतुरस्रसंस्थानवज्रर्षभनाराच संहननादिभाजामा हितपराक्रमाणां कर्माणि निर्जिजीर्षतां परिपूर्णशक्तिकानां परिस्पन्दस्व| भावयोगत्रयनिग्रहः क्रमते प्रागुपचितकर्म्मनिवृत्तिश्च न पुनरैदंयुगीन पुरुषाणां यथोक्तसंवराभावादिति, उच्यते, संवरद्वैविध्ये सति For Personal & Private Use Only CPICBOCPCC@C=C(CCCCCDOG संवरलक्षणं ॥४२०॥ www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy