________________
श्री तत्वार्थहरि०
८ अध्या०
॥ ४१८ ॥
Jain Education International
| वेदनीयं हास्याकारेणैवानुभवनीयं, एवं रतिवेदनीयं प्रीत्याकारेण, पुरुषवेदनीयं पुरुषाकारेणेति, शुभायुर्नामगोत्राणीति, | शुभशब्दः प्रत्येकमभिसम्बध्यते, तत्र शुभमायुष्कं मानुषं दैवं च, भाष्यकाराभिप्रायः, कर्म्मप्रकृतिग्रन्थानुसारिणस्तु तिर्यगायुरपि शुभमाचक्षते, यदि च तत्तथा ततश्चशब्देनानुकृष्यते, शुभनाम गतिनामादीनां मध्यादुद्धर्त्तव्यं सप्तत्रिंशत् प्रकारं शुभं गोत्रमाचष्टे - उच्चैर्गोत्रमित्यर्थः, एवमेतदुच्चैर्गोत्रान्तं सद्वेद्यादिकमष्टविधं पुण्यसंज्ञितं, अर्थाल्लभ्यं व्युदसनीयं दर्शयति-अतोऽन्यत् पापमिति (१८२-६) ।। कर्म्मप्रकृतिग्रन्थानुसारिणस्तु द्विचत्वारिंशत्प्रकृतीः पुण्याः कथयंति, तद्यथा सद्वेद्यं तिर्यङ्मनुष्यदेवायूंषि मनुष्य| देवगती पंचेन्द्रियजातिः शरीराणि पंच समचतुरस्रं संस्थानं वज्रर्षभनाराचसंहननं अंगोपांगत्रयं प्रशस्तवर्णगन्धरसस्पर्शा मनुष्यदेवानुपूर्व्यो अगुरुलघुः पराघात उच्छ्रासः आतप उद्योतः प्रशस्तविहायोगतिः त्रसबादरपर्याप्तप्रत्येकस्थिरशुभसुभगसुखरआदेययशःकीतिपर्यवसानाः शुभाः निर्माणं तीर्थकर उच्चैर्गोत्रैः सहेति, आसां च मध्ये सम्यक्त्वहास्यरतिपुरुपवेदा न सन्त्येवेति कोऽभिप्रायो | भाष्यकृतः ? को वा कर्म्मप्रकृतिग्रन्थप्रणिधीनामिति सम्प्रदायविच्छेदान्मया तावन्न व्यज्ञायीति, चतुर्दशपूर्वधरास्तु संविद्रते यथावदिति निर्दोषं व्याख्यानं, द्वयधिकाशीतिर पुण्यप्रकृतीनां तद्यथा- पंच ज्ञानावरणानि नव दर्शनावरणानि असद्वेद्यं मिथ्यात्वं षोडश कषायाः नव नोकषायाः नरकायुः नरकतिर्यग्गती एकद्वित्रिचतुरिन्द्रियजातयः आद्यवर्णानि संस्थानानि पंच संहननानि पंचैव अप्रशस्तवर्णगन्धरसस्पर्शाः नारकतिर्यग्गत्यानुपूर्व्युपघातनाम अप्रशस्त विहायोगतिस्थावरसूक्ष्मापर्याप्तकसाधारण स्थिराशुभदुर्भगदुःस्वरा| नादेयायशः कीर्त्तय इति, तथा नीचैर्गोत्रं पंचविधमन्तरायमिति, सम्यक्त्वादिषूभयथा दर्शनात् संशेते मनः, सातं तिर्यग्नृसुरायूंषि | शरीराणि पंच मनुजगतिः । देवगतिः पंचेन्द्रियतांगोपांगानि सर्वाणि ॥ १ ॥ वज्रर्षभनाराचं समचतुरस्रं च तीर्थकरनाम । स्पर्श
For Personal & Private Use Only
PRERANA HON
ACDC_U__I
पुण्यप्रकृतयः
॥४१८॥
www.jainelibrary.org