________________
श्री तत्वार्थ
हरि०
८ अध्या०
॥४१७॥
HODHANADHAROHAR
bgeDge:
Jain Education International
ज्ञानावरणादेर्योग्याः पुद्गलाः कियंत एकैकस्मिन्नात्मप्रदेशे बध्यन्त इति स्पष्टं विवृणोति । एकैको हीत्यादि, असंख्येयप्रदेशात्मनो जीवस्य एकैकप्रदेशोऽनन्तैर्ज्ञानावरणकर्म्मस्कन्धैर्बद्धः, एवं दर्शनावरणादिकर्म्मप्रदेशैरिति, प्रदेशशब्दः स्कन्धवचनः प्रकृष्टा देशा | बहवो यत्र स्कन्धेष्विति निर्वचनात् । अष्टमप्रश्नभेदायाह- अनन्तानन्तप्रदेशा इति, अनन्ते राशौ भूयोऽनन्तपुद्गलप्रक्षेपादनन्तानन्त इति व्यपदेशः, ते चात्मन एकैकस्मिन् प्रदेशे ज्ञानावरणादिपुद्गला अनन्तानन्तप्रदेशाः कर्म्मवर्गणायोग्या बध्यन्ते, श्लेषमुपयान्तीत्यर्थः, अयोग्यास्तु न बध्यन्ते इति तत्प्रतिपादनायाह- नतु संख्येया संख्येयानन्तप्रदेशा इति, नैव संख्येयादिप्रदेशा बध्यन्त इति, कुत एतदित्याह - अग्रहणयोग्यत्वात् प्रदेशानामिति, प्रदेशानां - स्कन्धानामेवंविधानामग्रहणयोग्यत्वादिति । सम्प्रति उपसंहरति - एष प्रदेशबन्धो भवतीति एतत् प्रदेशबन्धस्य स्वरूपमित्यर्थः ॥ सर्वं चैतदित्यादिः | (१८१-१६) सम्बन्धग्रन्थः, सर्वमिति सोत्तरप्रकृतिकमष्टप्रकारं ज्ञानावरणाद्यन्तरायपर्यवसानं पौद्गलं कर्म्म द्विधा विभज्यते - पुण्यं पापं च, शुभं कर्म्म पुण्यं, अशुभं पापमिति, तत्र द्विप्रकारे कर्म्मणि प्राशस्त्याच्छुभमेवाभिधीयते, तन्निरूपणेन यच्छेषं तत् पापमित्यर्थाद्भण्यते, अतः मूत्रम्
सद्वेय सम्यक्त्वहास्यरतिपुरुषवेदशुभायुर्नामगोत्राणि पुण्यमिति ।। ८-२६ ।। सूत्रम् ।।
तत्र सद्वेद्यं सुखरूपेणानुभवनीयं, तदुपादानहेतवः प्रागुक्ताः, कारणानुरूपं कार्यं भवतीति स्मरयति 'भूतवत्यनुकंपा दानं सराग| संयमादि योगः क्षान्तिः शौचमिति सद्वेद्यस्य', सम्यक्त्ववेदनीयं तच्चार्थश्रद्धानाकारेण अनुभवनीयं, तदपि केवलिश्रुतसंघधर्म्मदेवानां | वर्णवादादिहेतुकं, वर्णः कीर्त्तिः, यशः - सद्भूतगुणोद्भावनं भक्तिः पूजा पर्युपासनं आदिग्रहणात्, ते हेतवो यस्य तत्तद्धेतुकं, हास्य
For Personal & Private Use Only
बन्धपद्धतिः
॥४१७॥
www.jainelibrary.org