________________
न्धस्तुल्यः, कुतः?, योगविशेषादित्याह, आत्मना युज्यत इति योगः-कायादिचेष्टा, योगानां विशेषो भेदः तीव्रमन्दादिकः श्रीतचार्थ
प्रबन्धप्रत्यहरि० | तस्माद् योगविशेषादतुल्यं बन्धनं, एतदेवाह-कायवाङ्मनःकर्मयोगाच्च बध्यन्त इति, कायस्य वाचो मनसश्च क्रिया-कर्म
यादिदर्शनं ८ अध्या०
अनुष्ठानभाषणचिन्तनादिका तयाऽऽत्मनो योगः-सम्बन्धः, क्रियाक्रियावतोः कथञ्चिदनन्यत्वात् , तस्य क्रियायोगस्य विशेषस्तीवस्तीव्रतरस्तीव्रतम इत्येवं बन्धोऽपि प्रकृष्टादिभेदो मन्तव्यः । किंगुणाः के वेत्यत्राह-सूक्ष्मा बध्यन्ते, न बादरा इति, सूक्ष्मशब्दो ह्यापेक्षिकत्वाद्वहुभेदः, परमाणोरारभ्य यावदनन्तप्रदेशाः स्नन्धास्तावदप्यतिसूक्ष्मत्वान्न बन्ध्या भवन्ति, अनन्तानन्त| प्रदेशवर्गणायामपि भूयोऽनन्तराशिप्रदेशात् केचिद्हणयोग्याः केचिन्नेत्यतः सूक्ष्मग्रहणं, एवं क्रमेणौदारिकवैक्रियाऽऽहारकतैजसभापाप्राणापानमनोवर्गणाः समुल्ल वय कर्मवर्गणायोग्याः सूक्ष्मपरिणतिरूपा एवं बध्यन्ते, न बादरपरिणतिभाज इति, एवं क्रमेण सूक्ष्मपरिणतिभाजः केचिदग्रहणयोग्याः केचिद्हणयोग्याः पुनरपि केचिदग्रहणयोग्या इति ।। पञ्चमप्रश्नप्रतिवचनार्थमाह-एकक्षे. बावगाढा बध्यन्यते, न क्षेत्रान्तरावगाढाः । एकक्षेत्रावगाढा इत्यादि, एकस्मिन्-अभिन्न क्षेत्रे जीवप्रदेशैः सह येऽवगाढा-आश्रितास्ते बध्यन्ते,यत्राकाशे जीवोऽवगाढस्तत्रैव ये कर्मयोग्याः पुद्गलास्त एव बध्यन्ते, न क्षेत्रान्तरावगाढाः, तत्र च वर्तमानास्ते रागादिस्नेहगुणयोगादात्मनि लगन्ति, न क्षेत्रान्तरावगाढाः, तद्भावपरिणामाभावादनाश्रितानामिति । पष्ठप्रश्नोत्तरमाह
-स्थिताश्च बध्यन्ते, न गतिसमापन्नाः। स्थिता इत्यादिना,स्थिता एव बध्यन्ते,चशब्दस्यावधारणार्थत्वात् , सामर्थ्यलभ्यमर्थ । ॥४१६॥ IR दर्शयति-न गतिसमापन्ना, इति समाप्ति सूचकः, नावेगितत्वादिति । सप्तमप्रश्नप्रतिभेदायाह-सर्वात्मप्रदेशेष्वित्यादि, सर्वे च ॥४१६।।
| ते आत्मप्रदेशास्तेषु, आश्रवाणामविशेषात् सर्वात्मनि श्लिष्यति, वेगितत्वादिति सर्वात्मप्रदेशेषु बद्ध्यन्त इति, पुनरेकैकस्य कर्मणो
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org