SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ C हरि० ८ अध्या० अकर्मण उत्त यस्य कर्मण लाग्ने प्रत्यापा, ज्ञान प्रतिपद्यन्ते, पारम्पर्येण गत्यादयोऽपीति अतो नामकर्मकारणाः पुद्गला बध्यन्त इति । प्रत्ययशब्दस्य पर्यायशब्दाख्यापनायाह | |-नामनिमित्ता इत्यादि, नाम निमित्त-हेतुः कारणमेषां ते इमे नामनिमित्तादयः, इतिशब्दः प्रकारवाची, अपरे नामप्रत्यया | Rबन्धप्रत्यबन्धननामं व्याचक्षते, नामकर्मण उत्तरप्रकृतिः शरीरनामान्तर्गता बन्धननाम तत्प्रत्ययाः किल पुद्गला इति, तच्च गृहीतगृह्यमा | यादिदर्शनं णपुद्गलानामन्यशरीरपुद्गलैर्वा सम्बन्धो यस्य कर्मण उदयाद्भवति काष्ठद्वयभेदेकध्यकरणे जतुवदिति, अथवाऽयमर्थः-प्रत्यायय-" तीति प्रत्ययः, नाम प्रत्ययः कमैषामिति नामप्रत्ययाः, नाम्नैव प्रत्याय्यन्ते यादृशाः पुद्गलाः प्रदेशबन्धस्य कारणीभवन्ति । ज्ञानावरणं दर्शनावरणमित्यादि नाम तेन नाम्ना स्वरूपमाख्यायते तेषां, ज्ञानावरणसमर्थाः पुद्गला येन बध्यन्ते दर्शनावरणसमर्था|श्चेत्येवमन्यत्रापि योज्यं । ननु चैकाकारा एव पुद्गलाः समादीयन्ते, न तु ज्ञानावरणादिविशिष्टाः केचिदहिः सन्तीति ?, उच्यते, | सत्यमेतत् , वयं त्विदममिदध्महे-ज्ञानावरणादिकानां सर्वासां मूलप्रकृतीनां कर्म भेदानां सामर्थ्येन योगानां कर्मवर्गणानां ग्रहणमाम्नायते, ततः सामान्यगृहीतानामध्यवसायविशेषात् पृथक् पृथग्ज्ञानावरणादिभेदत्वेन परिणमयत्यात्मेति ।। सर्वतस्तिर्यगूर्वमधश्च बध्यन्ते, योगविशेषात्कायवाङ्मनःकर्मविशेषाच बध्यन्ते । सर्वत इति-सर्वासु दिक्षु, आत्मावधिकासु व्यवस्थितान् | पुद्गलानादत्ते, सप्तम्यन्तात् तसिः । एतत्प्रतिपादयन्नाह-तिर्यगूर्ध्वमधश्च यध्यन्त इति, तिर्यगष्टौ काष्ठाः ऊर्ध्वमधश्चैकैकेति, अतः सर्वासु दिक्ष्ववस्थितान् स्कन्धान लाति, नैकदिक्प्रतिष्ठान , सर्वजीवप्रदेशः सर्वजीवप्रदेशस्थानितियावत् , अपरे व्याचक्षतेसर्वत इति सर्वैरात्मप्रदेशः कर्मपुद्गलान् गृहाति, तृतीयान्तात् तसिः, एते चात्मप्रदेशाः शरीरिणो-जीवस्य केचिदृवं केचिचा-| ॥४१५॥ धस्तादिति, न चास्ति पुनरुक्तता दोषः, सर्वात्मप्रदेशेष्वित्यत्रानन्तानन्तप्रदेशामिसम्बन्धादिति, नापि सर्वेषां बन्धकानां सम्ब ॥४१५॥ immun R.utari Jan Education International For Personal & Private Use Only swww.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy