________________
श्रीतस्वार्थ
हरि०
८ अध्या०
॥४१४॥
W
Jain Education International
तपो निर्जराहेतुरतो निमित्तान्तरसमुच्चयार्थश्वशब्दः, इह चाष्टमे कर्म्मविरमणार्थं निर्जराग्रहणं, नवमे संवरार्थमिति । उक्तोऽनुभावयन्धः प्रदेशयन्धं वक्ष्याम इति (१८१-३) प्रतिजानीते, तत्प्रदर्शनायाह
नामप्रत्ययाः सर्वतो योगविशेषात् सूक्ष्मैकक्षेत्रावगाढस्थिताः सर्वात्मप्रदेशेष्वनन्तानन्तप्रदेशाः
इति ।। ८-२५ ।। सूत्रम् ॥
अष्टौ प्रश्नाः कस्य प्रत्ययाः कारणभृताः किंप्रत्यया वा पुद्गला बन्ध्यन्ते, एकः प्रश्नः १, जीवोऽपि तान् अनुबधानः पुद्गलान् किमेकेन दिक्प्रदेशेन बध्नात्युत सर्वदिक्प्रदेशैरिति ग्रहणमात्रं विवक्षितं २, सोऽपि बन्धः किं सर्वजीवानां तुल्यः आहोश्वित् कुतश्चिनिमित्ताद तुल्यः ३, किंगुणाः केवलाः पुद्गलाः बन्धास्पदं भवंति४, यत्र वाऽऽकाशप्रदेशे व्यवस्थिताः पुद्गलास्तत्रैवावगाढा ये जीव| प्रदेशाः किं तेषामेव पुद्गलानां तत्र बन्धः ? आहोश्विजीव प्रदेशा नवगाढगगन प्रदेशवर्त्तिनोऽपि बध्यन्ते५, किं वा स्थितिपरिणता बध्यते | अथच गतिपरिणताः ६, ते च किमात्मनः सर्वप्रदेशेषु श्लिष्यन्ति७, स्कन्धा वा किं संख्येयासंख्येयानन्तप्रदेशा बध्यंते उतानन्तानन्तप्रदेशा इति ८, एषामष्टानां प्रश्नानां क्रमेणैवाष्टाभिः सूत्रावयवैर्निराकांक्षीकरणं - नामप्रत्ययाः सर्वतो योगविशेषात् सूक्ष्मा | एक क्षेत्रावगाढाः स्थिताः सर्वात्मप्रदेशेष्वनन्तानन्तप्रदेशा इति सूत्रं, नामप्रत्यया इत्यादि (१८१-६) भाष्यं, संज्ञा नामान्वर्थ | सर्वकर्म्म उक्तं ज्ञानावरणाद्यन्तरायपर्यवसानं तस्य प्रत्ययाः- कारणानीति षष्ठी समासो, न हि तामन्तरेण तदाख्योदयादिसंभवो, मुक्तस्य यथाऽऽत्मनः, संसारिणः, प्रथमप्रश्नः, एवं द्वितीयविकल्पः - किंप्रत्यया वेति द्वितीयभेदाश्रयेण भाष्यं, नाम प्रत्ययो येषां त इमे नामप्रत्यया इति बहुव्रीहिः, अन्यपदार्थश्च गतिजात्यादिभेदं नामकर्म्म, औदारिकशरीरादयो योगाः कर्म्मणो निमित्ततां
For Personal & Private Use Only
(C5)C=C30C0CC30
बन्धप्रत्य
यादिदर्शनं
॥४१४॥
www.jainelibrary.org