SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ श्रीतस्वार्थहरि० ८ अध्या० ॥४१०॥ Jain Education International न्याः ॥ ३ ॥” कथं पुनरन्यथा बन्धोऽन्यथा विपाकरूपो रस इति प्रतिपादनायाह-जीवः कर्म्मविपाकमनुभवन्नि (१८०-६) त्यादि, | स्थित्युत्पत्तिव्ययपरिणाम्यात्मा कर्मणो ज्ञानावरणादिकस्य विपाकमुपभुंजानो रसमनुभवन्-वेदयमानः प्रकृतीनां संक्रमं करोति, स च संक्रमः कर्म्महेतुक एव, न निर्निमित्तः, यस्मादुपभोगो हि ज्ञानावरणोदयः, अनाभोगवीर्यपूर्वकमिति कर्मसंक्रमोऽभिसंबध्यते, | करोतिक्रियापेक्षः, आभुंजतः - अध्यवस्यतश्चेष्टाऽऽत्मनो या तदाभोगवीर्यम्, अनाभुंजतः - अनध्यवस्यतः सामर्थ्य - विशिष्टक्रियापरि| णामः अनाभोगवीर्य, तत्पूर्वकं तद्द्वारकं कर्मसंक्रमं विधत्ते, स पुनः संक्रमः कासु प्रकृतिषु कासां वा प्रकृतीनामित्याह- उत्तर| प्रकृतिष्वित्यादि (१८०-८), मूलप्रकृत्यपेक्षया उत्तरप्रकृत्यभिधानं, अष्टौ मूलप्रकृतयो ज्ञानावरणादिकाः, उत्तरप्रकृतिस्तु पंचभेदं ज्ञानावरणमित्यादिकाः, तत्रोत्तरप्रकृतीनामेवोत्तरप्रकृतिषु संक्रमः सर्वासु इत्युत्सर्गः, कासांचिन्न भवतीत्यर्थः, अपवदिष्यते | चोपरिष्टात्, पंचप्रकारं ज्ञानावरणं चक्षुदर्शनावरणादिप्रकृतिष्वप्यविशेषेण सर्वासु संक्रामतीति प्राप्तं अत आह— मूलप्रकृत्यभिशास्थिति मूलप्रकृतिभ्यः अभिनासु-अपृथग्भूतासु मूलप्रकृतीरजहतीषु, यथा मूलप्रकृतिरेका ज्ञानावरणमिति, उत्तरप्रकृतयः पंच, तत्रैताः पंचाप्यन्योऽन्यमेव संक्रामंति, नान्यमूलप्रकृत्युत्तरप्रकृतिपु, एनमेवार्थं सावधारणकं दर्शयति नतु मूलप्रकृतिषु | संक्रमो विद्यते इति, तुशब्दोऽवधारणार्थः, नैव मूलप्रकृतिषु संक्रमोऽस्ति, न हि ज्ञानावरणं दर्शनावरणे संक्रामति, नापि दर्श|नावरणं ज्ञानावरणे इत्येवम्, एवमन्यत्रापि योज्यं, अमुमेवार्थं युक्त्या प्रतिपादयन्नाह - बन्धविपाकनिमित्तान्यजातीयानि भिन्न| जातीयानीत्यर्थः, अन्यद् बन्धनिमित्तं ज्ञानावरणस्य 'तत्प्रदोषनिहवादि' अन्यद्वेदनीयादेः 'दुःखशोकादि' ज्ञानदर्शनावरणयोर्बन्ध| निमित्तमभिनमपि सदाशयविशेषाद्भेदमुपाश्नुत एव, विपाकनिमित्तमपि मित्रमेव, कार्यभेदो हि निमित्तभेदमेव कल्पयति, ज्ञाना For Personal & Private Use Only अनुभावबन्धः 118211 www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy