________________
श्रीतस्वार्थ
हरि० ८ अध्या०
बन्धः
गामानां मन्दः, यथोक्तकर्मविशेषानुभवनमनुमावः “कृत्यल्युटो बहुलमिति" वचनात् , अथवाऽऽत्मनाऽनुभूयते येन करणभूतेन बन्धेन सोऽनुभाववन्धः "करणाधिकरणयोश्चे"ति घम्, अनुभावशब्दस्य समुदायार्थप्रदर्शनं, अनुगतो वा भावोऽनुमाव इति,
जनुभावप्रादिसमासः क्रियालोपी, सर्वासां हि प्रकृतीनां फलविपाकोदयानुभाववन्धाजीवस्यानुसमयं कर्मानुभवनमिच्छानिच्छापूर्वकं, तद्यथा-बानावरणस्य फलं ज्ञानाभावः दर्शनावरणस्यापि फलं दर्शनशक्त्युपरोध इति, एवं सर्वकर्मणां स्वकार्यप्रबन्धानुभूतिरिति । सर्वासां प्रकृतीनामित्यादि (१८०-५) भाष्यं, सर्वासामिति कात्य॑ग्रहणं, कर्मबन्धस्य फलं विपाकः तस्योदयोऽनुभाव इति, पर्यायकथनेन व्याख्या भवतीति, विद्यते अवश्यं भावी विपाकः सर्वस्य कर्मणः, विशब्दार्थमाचष्टे-विविधोनानाप्रकारः पाको विपाकः स उच्यते, तद्वैविध्य निरूपयति-तथा चान्यथा चेत्यर्थः, यथा येनाध्यवसायप्रकारेण यादृगनुभावबन्धकर्म तत्तथा|| | तेनैव प्रकारेण विपच्यते, अन्यथा प्रकारान्तरेणापीत्यर्थः, अनुभावो विपाको रस इति पर्यायाः,स च तीव्रमन्दमध्यावस्थामेदा, शुभोऽशुभश्चैकैकः,तत्र कदाचिच्छुभमप्यशुभरसतयाऽनुभूयतेऽशुभंच शुभरसतयेति द्वैविध्यार्थः,तथा चाह-"तासामेव विपाकनिवन्धो यो नामनिर्वचनभिन्नः । स रसोऽनुभावसंज्ञः तीब्रो मन्दोऽथ मध्यो वा ॥१॥" तत्र चाष्टप्रकारे कर्मणि किंचित् कर्म पुद्गलेवेव विपच्यते, तत्पुद्गलान् परिणमयति नानाकारं, किंचिद्भवविपाकि प्राप्तजन्मन आत्मनः शरीरवतो विपच्यते, अपरं तु क्षेत्रविपाकि, क्षेत्रान्तरे विपच्यत इत्यर्थः, अन्यजीवविपाकी, जीव एव विपच्यते इत्येवं चतुर्दा विपच्यते, तथा चाह-"संहननं | संस्थानं वर्णस्पर्शरसगन्धनामानि । अंगोपांगानि तथा शरीरनामानि सर्वाणि||अगुरुलघुपरायातोपघातमुयोतमातप इमानि । प्रत्ये-10
G|४०९॥ RI कशरीरस्थिरशुभनामानीतरैः सार्द्ध ॥२॥ प्रकृतय एताः पुद्गलपाकाः भवपाकयुक्तमायुष्कम्। क्षेत्रफलमानुपूर्वी जीवविपाकाः प्रकृतयोs-|
॥४०९॥
Jan Education r
ational
For Personal Private Use Only