SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ श्रीतस्वार्थ मोहादीनां स्थितिः miumarginni हरि० ८ अध्या० एवमेतासां चतसृणां मूलप्रकृतीनामुत्कृष्टस्थितिबन्ध उक्तः, वर्षसहस्रत्रितयं अबाधाकालः, बाधाकालस्तु यत्प्रभृति ज्ञानावरमादिकर्म उदयावलिकादिप्रविष्टं यावच्च निःशेषमुपक्षीणं तावश्च भवति, तच्चोदयावलिकां प्रविशति बन्धकालादारम्य त्रिषु वर्षसहस्रेष्वतीतेषु, | वल्वबाधाकालो,यतस्तु तत् कर्म नानुभूयते तावन्तं कालमिति॥ अथ मोहनीयकर्मप्रकृतेः कियान स्थितिबन्ध इति तदभिधानायाह सप्ततिर्मोहनीयस्येति ।। ८-१६ ॥ सूत्रम् ॥ सागरोपमकोटीकोट्य इत्यनुवर्तते, ताः सप्ततिसंख्ययाऽभिसम्बध्यते, मोहनीयेत्यादिना (१७२-४) एतदेव स्पष्टतरं विधुणोति, प्रतिपादितार्थ चैतद्भाष्यमिति, अस्यास्त्वबाधाकालः सप्त वर्षसहस्राणि, ततः परं बाधाकालो यावदशेषं क्षीणमिति ।। नामगोत्रमूलप्रकृत्योः स्थितिप्रतिपादनायाह नामगोत्रयोविंशतिः ।। ८-१७॥ सूत्रम् ॥ नामकर्मणो गोत्रकर्मणश्च विंशतिः सागरोपमकोटीकोव्यः परा स्थितिरिति,नामगोत्रयोरित्यादिना भाष्येण स्पष्टीकृत एषोऽर्थः, अस्याप्यबाधाकालो वर्षसहस्रद्वयमिति ॥ आयुष्कोत्कृष्टस्थितिप्रतिपादनायाह त्रयस्त्रिंशत् सागरोपमाण्यायुष्कस्य ।। ८-१८ ।। सूत्रम् ॥ त्रयस्त्रिंशत् सागरोपमाणि पूर्वकोटित्रिभागाभ्यधिकानि, त्रयस्त्रिंशत् वचनात् कोटीकोव्य इति निवृत्तं, पूर्वकोटित्रिभागश्चाबा| धाकालः, आयुष्कप्रकृतेरित्यादि (१७९-१०) भाष्यं सुज्ञानमेव । मूलप्रकृतीनामुक्तः सामान्येन स्थितिबन्धः, उत्कृष्टः सम्प्रति उत्तरप्रकृतीनां प्रत्येकमुत्कृष्टो जघन्यश्चोच्यते सूत्रक्रमाश्रयणेन, तत्र सद्वेद्यप्रकृतेत्रिंशत्सागरोपमकोटीकोट्यः स्थितिः परा, जघन्या ॥४०५|| ॥४०५॥ Jan Education international For Personal & Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy