________________
BE
पादनायाह-गृहदलिकग्रहणेत्यादि,तत्र गृहदलिकग्रहणेनाहारपर्याप्तिं साधयति, गृहं कर्त्तव्यमिति सामान्येन दलिकमादत्ते शाखाश्रीतवार्थ- दिकाष्ठं, ततः सामान्योपात्ते दलिके अत्र स्तम्भः स्थूणा वा भविष्यतीति निरूप्यते, एवमनेकपुद्गलग्रहणे सत्यत्रामी शरीरवर्ग- पर्याप्तिनाम
हरि० | णायोग्याः पुद्गलाः शरीरपर्याप्तिनिष्पादनक्षमा इति शरीरपर्याप्तिः, मित्याधुच्छ्रायरूपगृहालोचनायामपि सत्यां कतिद्वारमिदं प्राङ्मु-| ८ अभ्या०
खमुदङ्मुखं वा प्रवेशनिर्गमनार्थमालोच्यते, तथेन्द्रियपर्याप्तिरप्यात्मन उपभोगवृत्या प्रवेशनिर्गमद्वारस्थानीयेति, एवं प्राणापानभाषापर्याप्ती अपि एतेनैव निदर्शनेन साध्ये, दार्शन्तिकभेदात्तु दृष्टान्तभेदः, तत सद्वारकेऽपि निष्पन्ने सअनि अत्रासनमत्र भुजिभूमिरिति स्थानशयनादिनिर्वर्तनमालोचयति गेहिनः, तद्वन्मनःपर्याप्तिरपि हिताहितप्राप्तिपरिहारोपेक्षालक्षणेति । एवमेताः पर है। पर्याप्तीनिवर्तयति तत्कर्म पर्याप्तिनाम, आपाकप्रक्षिप्तनिवृत्तघटवत् , अपर्याप्तिनाम तु अनिष्पनघटवदिति, एतदुक्तं भवति| यस्योदयेन पर्याप्तयो नासादयन्ति परिपूर्तितः अपर्याप्त एव म्रियते कदाचिद्विनापि भवति यथा मूर्छनजमनुष्यादिरिति ।।
स्थिरत्व निर्वर्तकं स्थिरनाम (१७७-१९) यस्योदयात् शरीरावयवानां स्थिरता भवति शिरोऽस्थिदन्तानां तत् स्थिरनाम, है अस्थिरनामापि शरीरावयवानामेव, यदुदयादस्थिरता चलता मृदुता भवति कर्णत्वगादीनां तदस्थिरनामेति, तदेतद्विपरीतमस्थिर
नामेत्यनेन प्रतिपादितं,आदेयभावनिर्वर्त्तकमादेयनाम गृहीतवाक्यत्वादादरोपजननहेतुतां प्रतिपद्यते उदयावलिकाप्रविष्ट सत् ,
एतदुक्तं भवति-यस्यादेयनामकम्मोदयस्तेनोक्तं प्रमाणीक्रियते यत्किंचिदपि, दर्शनसमनन्तरमेव चाभ्युत्थानादि लोकः समाचर॥४०॥
तीत्येवंविधविपाकमादेयनामेति, विपरीतमनादेयनाम युक्तियुक्तमपि वचनं यदुदयान प्रमाणयति लोकः,न चाभ्युत्थानाद्यर्हण-IMIn मर्हस्यापि कुर्वन्ति तदनादेयनामेति, अथवा आदेयता श्रद्धेयता दर्शनादेव यस्य भवति, स च शरीरगुणो यस्य विपाकाद् भवति
Jan Education Internati
For Personal &Piivate Use Only
www.jainelibrary.org