________________
श्रीतच्चार्थ
पर्याप्तीना
हरि ८ अध्या०
खरूपं
|परिसमाप्तिः प्राणापानपर्याप्तिः प्राणापानावुच्छासनिश्वासक्रियालक्षणौ तयोर्वर्गणाक्रमेण गोग्यद्रव्यग्रहणनिसर्गशक्तिः| सामर्थ्य तभिर्वर्तनक्रियापरिसमाप्तिः प्राणापानपर्याप्तिः, भाषायोग्यद्रव्यग्रहणनिसर्गशक्तिनिवर्त्तनक्रियापरिसमाप्ति
र्भाषापर्याप्तिः अत्रापि वर्गणाक्रमेणैव भाषायोग्यद्रव्याणां ग्रहनिसगौं तद्विषया शक्तिः-सामध्यं तन्निवर्त्तनक्रियापरिसमाप्तिर्भाषापर्याप्तिरिति, मनस्त्वयोग्यव्यग्रहणनिसर्गशक्तिनिवर्तनक्रियापरिसमाप्तिर्मनःपर्याप्तिरित्येके मनस्त्वयोग्यानीति मनोवर्गणायोग्यानि-मनःपरिणामप्रत्यलानि यानि द्रव्याणि तेषां ग्रहणनिसर्गसामर्थ्यस्य निर्वर्तनक्रियापरिसमाप्तिः मनःपर्याप्तिरिति, एके त्वाचार्या भेदेन मनःपर्याप्तिमुपाददते, न इन्द्रियपर्याप्तिग्रहणेन गृहते, इन्द्रियपर्याप्तिव्यतिरेकेण पठन्तीत्यर्थः, न पुनः मनःपर्याप्ति केचिदिच्छंति केचिन्नेति, आसामित्यादिना (१७७-१४) पडपि पर्याप्तयः समकमारब्धाः क्रमेण परिसमाप्तिमासादयन्तीति दर्शयति, किं पुनः कारणं वैषम्येण परिनिष्ठायामित्याह-उत्तरोत्तरसूक्ष्मतरत्वादिति, आहारपर्याप्तेः शरीरपर्याप्तिः सूक्ष्मतरा, बहुतरसूक्ष्मद्रव्यनिचयघटिता, ततोऽपीन्द्रियपर्यातिः सूक्ष्मतरा, तस्या अपि प्राणापानपर्याप्तिः, ततो वापर्याप्तिः, ततश्च मनःपर्याप्तिः सुसूक्ष्मेति, तच्चोत्तरोत्तरसूक्ष्मत्वं दृष्टान्तेन दर्शयति सूत्रदा दिकर्तनघटनवदिति, स्थूलसूत्रकर्तिका सूक्ष्मसूत्रकर्तिका च, ते कर्त्तनं युगपदारभेते, तत्र स्थूलसूत्रकर्तिकातः सूक्ष्म सूत्रकर्तिका चिराय कुकुटकं पूरयति,इतरा | त्वाशु परिसमापयति, दारुघटनेऽप्येष एव क्रमः, स्तम्भादीनां स्थूलरूपनिर्वर्त्तनं समचतुरस्रादि स्वल्पेन कालेन क्रियते, स एव | स्तम्भः कुट्टिमपुत्रच्छेद्यपुत्रिकासंघाटकयुक्तिश्चिरेण निष्पद्यते, तुल्यकालेऽपि प्रारम्भे, आदिशब्दाचित्रपुस्तलेप्यकादिपरिग्रहः, यथासंख्यं च निदर्शनानीति, अनेन पण्णामपि पर्याप्तीनां क्रमेण षड्भिरेव दृष्टान्तैः स्वरूपमुपक्रम्यते, अतो दृष्टान्तस्वरूपप्रति
॥४००111
॥४०॥
Jan Education International
For Personal Private Use Only