________________
श्रीतच्चार्थ
इरि०
पर्याप्तीनां
खरूपं
८ अध्या०
E
HIMAD
प्रतिपादनार्थः, ननु च पड़ पर्याप्तयः पारमर्षप्रवचनप्रसिद्धाः, कथं पंचसंख्याका इति, उच्यते, इन्द्रियपर्याप्तिग्रहणादिह मनःप
प्तेिरपि ग्रहणमवसेयं, अतः पंचैवेति निश्चयः, ननु च शास्त्रकारेणानिन्द्रियमुक्तं मनः कथमिन्द्रियग्रहणाद् ग्रहीष्यते ?, उच्यते, | यथा शब्दादिविषयग्राहीणि साक्षाचक्षुरादीनि न तथा मनः सुखादीनां पुनः साक्षाग्राहकमतो न सम्पूर्णमिन्द्रियमित्यनिन्द्रियमुक्तमिन्द्रिय(द्र)लिंगत्वात्तु भवत्येवेन्द्रियमिति, तथा केचिदाचार्याः पृथग्मनःपर्याप्तिग्रहणमधीयत इत्युपरिष्टादमिधास्यते, यच्चाबधारणं पश्चैवेति तद् बामकरणापेक्षया, मनः पुनरन्तःकरणमतः पृथक् पठन्तीति न कथिदोषः, उभयथापि मनःपर्याप्तिसम्भव इति । पर्याप्तिः परिनिष्पत्तिर्विवक्षितक्रियापरिसमाप्तिरात्मनस्तैजसकार्मणशरीरमाज एवौदारिकादिशरीरप्रेप्सया प्रथमत एवोत्प| त्तावेताश्चिन्त्यन्ते, जन्मान्तरग्रहणकाल इत्यर्थः, युगपच्चारब्धाः षडपि क्रमेण निष्पद्यन्ते, न समकम् , उत्तरोत्तरपर्याप्तीनां बहुतरकालत्वात् , क्रमश्वासौ-आहारशरीरेन्द्रियप्राणापानवचनमनोलक्षणः,तत्राहारपर्याप्तिस्वरूपनिरूपणायाह-तत्रेत्यादि, शरीरस्येन्द्रियाणां वाचो मनसः प्राणापानयोश्चागमप्रसिद्धवर्गणाक्रमेण यानि योग्यानि दलिकद्रव्याणि तेषां आहरणक्रिया ग्रहणम्-आदानं | |तस्याः परिसमाप्तिराहारपर्याप्तिः करणविशेषः, अत्र च मनोग्रहणात् परिस्फुटमिन्द्रियग्रहणेन मनसोऽप्युपादानमिति, सामान्येन
गृहीतस्य योग्यपुद्गलसंघातस्य शरीरांगोपांगतया संस्थापनक्रिया-विरचनक्रिया तस्याः परिसमाप्तिः शरीरपर्याप्तिः,संस्थापनशब्दा| र्थप्रकारान् पर्यायशब्दैरावेदयति-संस्थापनं रचना घटनमित्यर्थः, शरीरवर्गणायोग्यपुद्गलानां प्रतिनियताऽवयवरचनेत्यर्थः, त्व: गादीन्द्रियनिर्वर्तनक्रियापरिसमाप्तिरिन्द्रियपर्याप्तिः त्वगिति स्पर्शनेन्द्रियं तदादीन्द्रियं स्पर्शरसनाघ्राणचक्षुःश्रोत्रमनोलक्षणं तत्स्वरूपनिर्वनक्रियापरिसमाप्तिरिन्द्रियपर्यापिः, प्राणापानक्रियायोग्यद्रव्यग्रहणनिसर्गशक्तिनिवर्तनक्रिया
॥३९९॥
MORIEDOEDEOHINIDHISM
| ॥३९९॥
For Personal Private Use Only