SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ ES श्रीतवार्थ हरि० ८ अध्या० प्रत्येकादिप्रकृतयः OCODAICOD योगतिस्वरूपप्रतिपादनायाह-लब्धिशिक्षेत्यादि,(१७६-१४) विहायः-आकाशं तत्र यतिर्विहायोगतिः,सा द्विधा-शुभाच । अशुभा च,तत्र प्रशस्ता हंसगजवृषादीनां,अप्रशस्ता तूष्ट्रटोलशृगालादीनां,तत्र लब्धिर्देवादीनां देवोत्पत्यविनाभाविनी, शिक्षया ऋद्धिः | शिक्षर्द्धिः तपखिनां प्रवचनमधीयानानां विद्याद्यावर्त्तनप्रभावाद्वा आकाशगमनस्य, लम्धिशिक्षर्द्धिहेतोर्जनकं विहायोगतिनामेति ॥ । प्रत्येकशरीरनामनिर्झरणार्थमाह-पृथक्शरीरनिर्वर्तकमित्यादि(१७६-१६) यस्य कर्मण उदयादेकैको जीवः प्रति प्रत्येकैकं । शरीरं निवर्तयति तत् प्रत्येकनामैकद्वित्रिचतुःपंचेन्द्रियविषयं, यथा प्रत्येकवनस्पतिजीवो मूलस्कन्धशाखाप्रशाखात्वपत्रपुष्पफलादिषु पृथक् पृथक् शरीरं निवर्त्तयति तथा द्वीन्द्रियादयोऽपीति । साधारणशरीरनामाद्या बादरनामपर्यवसाना एकादश प्रकृतीः क्रमेण व्याचष्टे,अनेकजीवेत्यादि,अनेकशब्देनानन्तसंख्याग्रहणं, अनन्तानां जीवानामेकं शरीरं साधारणं किशलयनिगोदथोहरिवज्रिप्रभृति, यथैकजीवस्य परिभोगस्तथाऽनेकस्यापि तदमिन्नं सद्यस्य कर्मण उदयान्निवर्यते तत् साधारणशरीरनाम, तथा त्रसभावनिर्वर्तकं वसनाम, त्रस्यन्तीति त्रसाः-द्वित्रिचतुःपंचेन्द्रियलक्षणाः प्राणिनः, यस्मात्तस्य कर्मण उदयात्तेषु परिस्पन्दोऽजसा लक्ष्यते स तादृशो गमनादिक्रियाविशेषो यस्य कर्मण उदयाद्भवति तत्रसत्वनिवर्तकं प्रसनाम, तदुदय एव गत्यादिक्रिया भवतीति नावधार्यते, गमनं तु तदुदयात् स्वभावाच्च,तदुदयावीन्द्रियादीनां स्वभावात् परमाणुतेजोवारवादीनामिति,कमलिनीखण्डादेर्देशान्तरगमनश्रवणाद् व्यभिचार इति चेत् तन्न, अधिष्ठातृव्यन्तरानुग्रहादिति, स्थावरभावनिर्वनकं स्थावरनाम, स्थानशीलं स्थावरं तद्भावः स्थावरत्वं तत् निवर्तयति यत् पृथिव्यम्बुवनस्पत्यादिलक्षणं तत् स्थावरनामकर्म,स्थानशीलत्वं तु स्थावरनामकम्मोदयादेव पृथिव्यम्बुवनस्पतीनां,परमार्थतस्तु स्थावरनामकर्मोदयात् स्थावरत्वं, परिस्पन्दो भवतु मा वा भूद्, एवं च तेजोवायवोरपि स्थावरत्व ||३९७॥ paas R ॥३९७॥ Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy