________________
भीतत्त्वार्थ
हरि० ८ अध्या०
लघु वा न विजए दई । ववहारओ उ जुञ्जइ वायरखंधेसु णण्णेसु ॥१॥" उपघातनामस्वरूपाख्यानायाह-शरीरांगोपांगोपघा|तकमिति, शरीरांगानामुपांगानां च यथोक्तानां यस्य कर्मण उदयात् परैरनेकधोपघातः क्रियते तदुपघातनाम, मतान्तरं च वा-1
अगुरुल
ध्वादीनि शब्देन प्रतिपादयति, स्वपराक्रमविजयाधुपघातजनकं वा केचिदेवमुपघातनाम व्याचक्षते सूरयः, पराक्रमः प्राणिवीर्य स्वो | निजः पराक्रमः स्वपराक्रमः तस्योपघातं जनयति, समर्थवपुषोऽपि निर्वीर्यतामापादयति, स्वविषयं चोपहन्ति, विजितेऽप्यन्यसिन् |
नैव विजित इत्यव्यपदेशहेतुतां प्रतिपद्यत इति, आदिग्रहणादन्यदपि यदद्भुतं कर्म तत्तस्योदयेनोपहन्यत इति । पराघातस्वरूपं । | निरूपयति-परत्रासेत्यादि, यस्य कर्मण उदयात् कश्चिद्दर्शनमात्रेणैवौजस्वी वाक्सौष्ठवेन वाऽन्यसभामप्यभिगतः सभ्यानामपि त्रासमापादयति, आकर्षणं परप्रतिघातं वा करोति तत् पराघातनाम, आदिग्रहणात् संक्षोभदृष्टिगतिस्तम्भनपरिग्रहः । आतपनामस्वरूपनिरूपणायाह-आतपसामर्थ्यजनकमिति, आतपतीत्यातपः, कर्त्तर्यच, आतप्यतेऽनेनेति आतपः, पुंसि संज्ञायां घः, तस्यातपस्य सामर्थ्य-शक्तिरतिशयो येन कर्मणोदितेन जन्यते तदातपनाम, आङो मर्यादावचनत्वात् , सहस्रांशुमण्डलपृथ्वीकायपरिणाम एव तद्विपच्यते । उद्योतनामस्वरूपप्ररूपणायाह-प्रकाशप्सामर्थ्यजनकमुद्योतनामेति, उद्योतजनकमुद्योतःप्रकाशोऽनुष्णः खद्योतकादिप्रभावतः, सप्ताचिःसवितृमण्डलासंभवी, यस्मादग्नेरुष्णः स्पर्शो लोहितं रूपम् , अतः प्रकाशस्य साम-8
र्यमतिशयं जनयति तदुद्योतनाम । उच्छासनामस्वरूपं आचष्टे-प्राणापानेत्यादि, ऊर्ध्वगामी समीरणः प्राणः अधोगतिरपानः, | तौ च मूत्तौं पुद्गलकावित्यत आह-पुद्गलग्रहणसामर्थ्यजनकमिति, प्राणापानावनंतप्रदेशस्कन्धपुद्गलपरिणामजन्यौ तद्योग्यपुद्ग-8॥३९६।। लानां ग्रहणम्-आदानं तस्य सामर्थ्यमतिशयं जनयति यत्तदुच्छासनाम, यस्योदयादुच्छासनिःश्वासौ भवत इति । बिहा-1
.||३९६॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org