________________
श्री स्वार्थहरि०
८ अध्या०
।।३९५।।
Jain Education International
तदैव चानुपूर्वीनामाप्युदेति ननु च यथैव गतावृज्च्यां विना नामकर्मणोत्पत्तिस्थानमियति तद्वद्वगत्यामपि कस्मात् नोत्पद्यते ?, ऋज्यां पूर्वकायुर्व्यापारेणैव गच्छति, यत्र तु पूर्वकमायुः क्षीणं तत्र तस्योदय इत्यध्व यष्टिस्थानीयस्यानुपूर्वीनामकर्म्मणः, तदभिमुखमानुपूर्वीत्यादि, तदित्यनेन विवक्षितगतिरभिसंबध्यते, यस्यां मृत उत्पत्स्यते तस्याममिमुखमनुकूलमानुपूर्व्या-प्रति विशि |टदेशक्रमेण तत्प्रापणसमर्थमिति वक्ष्यति, तदभिमुखमित्यनेनाभिमुख्यमात्रं प्रतिपादितं भूयस्तत्प्रापणसमर्थमित्यनेनानुपूर्वीनामकर्म्मणः कार्यमादर्शयति, एतदुदितं तद्गतिप्रापणे समर्थ- प्रत्यलं, आनुपूर्वीनामकर्म्माग्रेसरं, नरकगत्यानुपूर्वीनापादि चतुर्विधं भवतीति, मतान्तरप्रदर्शनायाह निर्माणनिर्मितानामित्यादि, निर्माण नामकर्म्मणा निर्मितानां घटितानां शरीरावयवानामंगानां बाहूरूदरादीनां उपांगानां चाकुलीकर्णनासिकानां विनिवेशक्रमनियामकं रचना विनिवेशः तस्य क्रमः परिपाटी उभयपार्श्वतो बाहू कटेरधो जानुनोश्वोपर्युपरि, एवमन्यत्रापि वाच्यः क्रमः, तस्य नियामकं-नियमकारि, अनेनाङ्गोपाङ्गेन चात्रैव स्थाने विनिवेष्टव्यमित्येवमानुपूर्वीनामापरे प्रवचनवृद्धाः कथयंतीति ।
अगुरुलघुप्रकृतिनिर्द्धारणायाह- अगुरुलध्वित्यादि (१७६ - १० ) परिणामत्रयस्यात्र निषेधो विवक्षितो, गुरुत्वलघुत्वगुरुलघुत्वाख्यस्य यस्य कर्म्मण उदयात् सर्वजीवानामिह कुन्ध्वादीनां आत्मीयात्मीयशरीराणि न गुरूणि न लघूनि न गुरुलघूनि, किं तर्हि १, अगुरुलघुपरिणाममेवावरुन्धंति तत् कर्म्मागुरुलघुशब्देनोच्यते, सर्वद्रव्याण्येव च परिणमन्ते स्थित्यादिनाऽनेकेन स्वभावेनेति | जैनः सिद्धान्तः, तत्रागुरुलध्वाख्यो यः परिणामस्तस्य नियामकं, तदेतत् तत्रोद्भूतेतरशक्तिकं निधत्त इत्यगुरुलघुनाम, सर्वशरीराणि निश्चयनयवृष्या न गुरुकादिव्यपदेशभांजि, व्यवहारन याच्चन्यान्यापेक्षया त्रैविध्यमवरुध्यंते, यथोक्तम्- “णिच्छयओ सब गुरुं सब
For Personal & Private Use Only
आनु पूर्व्यादयः
।। ३९५।।
www.jainelibrary.org