SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ श्री तत्वार्थहरि० ८ अध्या० ॥ ३९४॥ Jain Education International स्पर्शनामाष्टविधमित्यादि, औदारिकादिशरीरेषु यस्य कर्म्मण उदयात् कठिनादिः स्पर्शविशेषः समुपजायते तत् स्पर्शनामाष्टविधं भेदानामष्टतां प्रतिपादयन्नाह - कठिननामादीति, कर्कशमृदुगुरुलघुस्निग्धरूक्षशीतोष्णनामानि स्वस्थाने त्वनेकभेदत्वमेषां प्रकर्षाप्रकर्षजनितं रसनामानेकविधं तिक्तनामादि तिक्तकटुकषायाम्लमधुरलवणाख्यं, लवणो मधुरान्तर्गत इत्येके, | अनेकविधग्रहणं तिक्ताद्यन्तर्भेदप्रतिपदनार्थं, एवमन्यत्राप्यंतर्भेदा वाच्याः, गन्धनामानेकविधं सुरभिगन्धनामादि शरीर| विषयं सौरभं दुर्गधित्वं च यस्य कर्म्मणो विपाकानिर्वर्त्तते तद्गन्धनाम, अपरे साधारणं गन्धमाहुस्तदसत्, सुरभिणा दुरभिगन्धिना वा | भवितव्यं, न साधारणः कश्चिदस्तीति, वर्णनामानेकविधं कालनामादि यस्योदयाच्छरीरे कृष्णादिपंचविधवर्णनिष्पत्तिर्भवति तद्वर्णनाम, कृष्णनीललोहितपीतशुक्लभेदं सर्वाणि चैतानि स्पर्शनामादीनि वर्णनामान्ताति शरीरवर्त्तिषु पुगलेषु विपच्यत इति । | आनुपूर्वी नाम स्वरूपनिरूपणायाह - गतावुत्पत्तुकामस्येत्यादि, गम्यतेऽसाविति गतिः - नरकाद्युत्पत्तिस्थानं, तच्च गतिनामकर्मोदयादवाप्यते, तस्यां गतावुत्पत्तिमिच्छतः कर्म्मसामर्थ्यादात्मनः अन्तर्गतौ वर्त्तमानस्येति, मनुष्यः तिर्यग्जातिर्वा पशुर्यावदुत्पत्तिस्थानं न प्राप्नोति तावदन्तरगतिषु वर्त्तमानस्य कस्यचिज्जन्मवत आनुपूर्वीनामकर्मोदयो भवति, आनुपूर्वी च क्षेत्रसन्निवेशक्रमः, 'अनुश्रेणि गतिर्जीवानां पुगलानां चे 'ति वचनात्, तत्र यत्कम्र्म्मोदयादतिशयेन तद्गमनानुगुण्यं स्यात् तदप्यानुपूर्वीशब्दवाच्यं भवति, तत्तु आत्मनो गत्यन्तरं गच्छत उपग्रहे वर्तत्ते, अनिमिषस्येव पयः सा चान्तरगतिर्द्विधैव ऋज्वी वक्रा च, तत्र यदा ऋज्व्या गत्या गच्छति समयप्रमाणया तदा पूर्वकमेवायुरनुभवन्ननुदितानुपूर्वीनामकम्मैवोत्पत्तिस्थानं प्राप्तः पुरस्कृतमायुरासादयति, वक्रगत्या पुनः पृवृत्तः कूर्परलाङ्गलगोमूत्रिकालक्षणया द्वित्रिचतुः समयमानया तदारंभकाले पुरस्कृतमायुरादत्ते, For Personal & Private Use Only CDICPICSCSCSCUL स्पर्शादीनि ॥ ३९४ ॥ www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy