________________
avinymmar
श्रीतत्वार्थ
हरि० ८ अध्या०
संस्थान संहननानि
रितनभागाः पुनर्नाधोऽनुरूपा इति, सादीति शाल्मलीतरुमाचक्षते प्रवचनवेदिनः, तस्य हि स्कन्धो द्राधीयानुपरि तु न तदनुरूपा विशालतेति, कुब्जनामस्वरूपं तु पुनः कन्धरायाः उपरि हस्तपादं च समचतुरस्रलक्षणयुक्तं संक्षिप्तं विकृति मध्यकोष्ठं च कुजं, वामननाम तु लक्षणयुक्तकोष्ठं ग्रीवायुपरि हस्तपादयोश्च न्यूनलक्षणं वामनं, हुण्डसंस्थानं तु यत्र पादाद्यवयवा यथोक्तप्रमाणविसंवादिनः प्रायस्तद् हुण्डसंस्थानमिति, तथा चोक्तं-"तुल्लं वित्थडबहुलं उस्सेहबहुं च मडह कोई च । हेडिल्ल काय मडहं सहत्य असंठिअं हुंडं ॥१॥" संहनननाम पड़िधमित्यादि (९७६-२) अत्र पूर्ववद् व्याख्या, तद्यथेत्यादिना षण्णामपि स्वरूपमाविर्भावयति, वज्रर्षभनाराचमित्यादि, अस्थ्ना बन्धविशेषः महननं, ऋषभः-पट्टः वज्र-कीलिका मर्कटबन्धस्थानीया उभयपार्श्वयोरस्थिबन्धः किल नाराचः, वज्रर्षभनाराचा यत्र संहनने तद्वज्रर्षभनाराचसंहननं, अस्थ्नां बंधविशेष इति, अर्द्धवज्रर्पभनाराचनाम "तु वज्रर्षभनाराचानामर्द्ध किल सर्वेषां च, वज्रस्यार्द्धमृषभस्यार्द्ध नाराचस्पाईमिति भाष्यकारमतं, कर्मप्रकृतिग्रन्थेषु वज्रर्षभनाराच
नामैव पट्टहीनं पठितं, किमत्र तत्वमिति सम्पूर्णानुयोगधारिणः संविद्रते, अर्द्धग्रहणाद् वा ऋषभहीनं व्याख्येयं, नाराचनाम्नि | |तु मर्कटबंध एव केवलो, न कीलिका, न पट्टः, अर्द्धनाराचनामनि तु एकपार्चे मर्कटबन्धः द्वितीयपार्वे तु कीलिकैवामर्कटबंधा,
अत्रापि कर्मप्रकृतौ नास्थिकीलिका, पंचमं कीलिकानाम-विना मर्कटबन्धेनास्थ्नोर्मध्ये कीलिकामात्रं, सुपाटिकानाम कोटिद्वय| संगते यत्रास्थिनी चर्मस्नायुमांसावनद्धे तत्सृपाटिका नाम कीय॑ते,सपाटिका-फलकसंपुटं,यथा तत्र फलककानि परस्परं स्पर्शमात्रवृश्या वर्तन्ते एवमस्थीन्यत्र संहनने, तदेवमेतान्येवंविधास्थिसंघातलक्षणानि संहनननामान्यौदारिकशरीर एव संहन्यते,लोहपट्टनाराचकीलिकाप्रतिबद्धकपाटबदिति ॥
॥३९३॥
॥३९३३॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org