________________
श्रीतार्थहरि० ८ अध्या०
॥३९१ ॥
Jain Education International
गान्यष्टावुरशिरः पृष्ठमुदरं करौ पादौ च उपांगानि स्पर्शनमस्तिष्कादीनि, अष्टानामंगानामेकैकस्योपाङ्गमनेकप्रकारं तत्र शिरोद्रव्य| मधिकृत्य प्रत्यंगानि भाष्यकृत् पपाठ- मस्तिष्कं - मस्तुलुंगः शिरोंगस्यारंभकोऽवयवस्तथा कपालादयः स्पर्शनादयश्च, ननु च धातुमध्ये अधीतं मस्तिष्कं नांगं न प्रत्यङ्गमिति, कपालादिवत् आरम्भकत्वात् मस्तिष्कमपि उपांगं शिरसोऽवसेयं, एवमुरःप्रभृत्यंगानामध्ये | कैकस्य वाच्यान्युपांगानि, ज्वलनजलानिलवसुधावनस्पतिवर्जजीवेषु संभवंति, जातिर्लिंगाकृतिव्यवस्थानियामकं निर्माणनाम (१७५-१५) जातिरेकेन्द्रियादिलक्षणा पंचधोक्ता तस्यां जातौ लिंगव्यवस्थां आकृतिव्यवस्थां तां नियमयति यत् लिंगं स्त्रियाः | पुंसो नपुंसकस्य च यदसाधारण आकारः आकृतिरवयवरचना तां च निर्मापयति निर्माणं एतदुच्यते, एतदुक्तं भवति - सर्वजीवानामात्मीयात्मीयावयवविन्यासनियमकारणं निर्माणं कलाकौशलो पेतवर्द्धकिवत् । सत्यां प्राप्तावित्यादि, शरीरनामकर्मोदयाद् गृहीतेषु | गृह्यमाणेषु वा तद्योग्यपुद्गलेष्वात्मप्रदेशस्थितेषु शरीराकारेण परिणमितेष्वपि परस्परमवियोगलक्षणं यदि बंधननाम काष्ठजतुवत् न स्यात् तस्मात्ततो वालुकापुरुषवद्विघटेरन् शरीराणि, तदेतेन भाष्येण प्रतिपादितं, औदारिकादिभेदाच्च पंचधा, न चेदं प्रकृत्य न्तरं नामकर्म्मणः, संघातप्रकृतिस्वरूपनिरूपणायेदमाह बद्धानामपि चेत्यादि, बद्धानामपि च पुद्गलानां परस्परं जतुकाष्ठन्यायेन | पुद्गलरचनाविशेषः संघातः, संयोगेनात्मना गृहीतानां पुद्गलानां यस्य कर्म्मण उदयादौदारिकादितनुविशेषरचना भवति तत् संघा| तनामकर्म्म, पुद्गलरचनाकारेण विपच्यत इति पुद्गलविपाकीत्युच्यते तच्चौदारिकादिभेदात् पंचधा, परस्परविभिन्नलेप्यकरचना| विशेषवच्छरीरपरिणाम एवेत्युपलक्ष्यते स चैवंविधः कर्म्मभेदो यदि न स्यात् ततः प्रत्यक्षप्रमाणविनिश्श्रेयः पुरुषयोषिद्गवादि| लक्षणो नानाशरीरभेदो नैव संभाव्येत संघात विशेषकर्माभावात् कारणानुविधायि च कार्य लोके प्रतीतं, संघातविशेषादेव हि
For Personal & Private Use Only
पिंड
प्रकृतयः
।। ३९१ ।।
www.jainelibrary.org