________________
C
श्रीतस्वार्थ
हरि. ८ अध्या०
पिंडप्रकृतयः
| त्यादि, एकं प्रथममिन्द्रियं जातिः-सामान्यं तदेव नाम, एवं द्वीन्द्रियजातिनामादिचतुष्टयमपि वाच्यं, एकेन्द्रियजातिनामकर्मोदयात् एकेन्द्रिय इति व्यपदिश्यते, एकेन्द्रियसंज्ञाव्यपदेशनिमित्तं एकेन्द्रियजातिरिति सामान्यं, पृथिव्यादिभेदेष्वन्वयित्वात् , एकेन्द्रियजातिनामान्तरेणैकेन्द्रियसंज्ञाया अभाव एव स्यात् , एकेन्द्रियादिजातयोपि पिण्डप्रकृतय एव, पृथिवीकायिकादिभेदापेक्षया, तद्यथेत्यादिना निर्दिशति, पृथिवीकायिकजातिनाम, पृथिव्येव कायः २ स एषामस्ति ते पृथिवीकायिकाः तेषां जातिः तदेव नाम पृथिवीकायिकजातिनाम, पृथिवीकायिकजातिनामकर्मोदयात् पृथिवीकायिकव्यपदेशः, एवं शेषाणि, तत्र पृथिवीका|यिकजातिनामानेकविधं अनेन पुनरपि पृथिवीकायिकजातिनाम्नः पिण्डप्रकृतित्वं दर्शयति, तद्यथेत्यादि निर्दिशति, शुद्धपृथबीत्यादिना निर्दिशति । उपक्केदः-हरतनुकः भूमेनिर्गत्य तृणाग्रादिस्थितः, शेषा गतार्था भेदाः। तेजस्कायिकादि गतार्थ सर्व, | एवं द्वित्रिचतुःपंचेन्द्रियनामानि शंखशुक्तिकाद्युपदिकापिपीलिकादिभ्रमरसरटादितिर्यङ्मनुष्यादिभेदेन वाच्यानां । | · शरीरनामोत्तरप्रकृतयः पंच, तत्प्रतिपादनायाह-शरीरनामेत्यादि, (१७५-५) असारस्थूलवर्गणानिर्मापितमौदारिकशरीरं,
तत्प्रायोग्यपुद्गलग्रहणकारणं यत् कर्म तदौदारिकशरीरनामोच्यते, विचित्रशक्तिकद्रव्यनिर्मापित बैक्रिय तद्योग्यपुद्गलादानकारणं | यत्तत् कर्म तक्रियशरीरनामाभिधीयते, कारणे कार्योपचारात् , प्रयोजनप्रसाधनायाऽऽहियत इत्याहारकं शरीरं, शेषं पूर्ववत् ,
तेजोगुणद्रव्यारब्धमुष्णगुणमाहारपरिपाचनक्षम तैजःशरीरं,शेषं पूर्ववत् , कुण्डमिव बदरादीनामशेषकर्माधारभूतं समस्तकर्मप्रसव|नसमर्थमंकुरादीनां बीजमिव कार्मणं शरीरं,इयं चोत्तरप्रकृतिः शरीरनामकर्मणः पृथगेव कर्माष्टकात् समुदयभूतादिति । अंगोपांगेत्यादि,अंगानि उपांगानि(अंगोपांगानि)च यस्य कर्मण उदयानिय॑न्ते तदंगोपांगनाम, त्रिविधमौदारिकवैक्रियाहारकभेदात् ,तत्रां
||३९०॥॥
| ॥३९
॥
N
Jan Education International
For Personal Private Use Only