________________
श्री तत्वार्थ
हरि० ८ अध्या०
||३८९||
Jain Education International
| साधारणशरीरत्रसस्थावरसुभगादुर्भगसुस्वरदुःस्वरसूक्ष्मबादरपयाप्तपर्याप्तस्थिर अस्थिरआदेय अनादेययशः अयशः तीर्थकरनामान्येकैकप्रकाराण्येव, एवमेता उत्तरप्रकृतयो नामकर्म्मणः सप्तषष्टिः, अत्र च बन्धनसंघातनामनी शरीरनामान्तर्भूते एवातः शरीरविशेष| त्वादेव नोत्तरप्रकृतिः पृथक्, सूत्रे यदुपादानं पार्थक्येन तस्वनयोः स्वरूपप्ररूपणार्थमिति । गतिनामेत्यादि भाष्यम्, तत्र गतिः | नामेत्येवमादिभाष्येणेत्येतद् (१७३-६) द्विचत्वारिंशद्विधं मूलभेदतो नामकर्म भवतीत्येवमंतेन पिंडप्रकृतिराख्यायते, गतिरेव नाम गतिनाम, नामशब्दः सर्वत्र जातिनामादिष्वपि समानाधिकरणः, आनुपूर्वीनाम, अन्ये पठन्ति अनुपूर्वी नाम, ततश्च प्रथमपाठे सूत्रमेवं- अनुपूर्व्यागुरुलघूपघात इति, इतरत्र आनुपूर्व्यगुरुलधूपघात इति, प्रत्येकशरीरादीनां दशानां सेतराणामिति | सप्रतिपक्षाणां साधारणशरीरादीनां दशानां नामानि - अभिधानानि वक्ष्यमाणानि विज्ञेयानि, अथवा प्रत्येकशरीरादीनां पूर्वपदानां | सामानाधिकरण्यविवक्षायां नामानीति, व्यक्तिविवक्षातो नामशब्द उत्तरपदं भवतीति, तद्यथेत्यादिना उद्देशः, सामानाधिकरण्येन प्रत्येकशरीरनामादिकः, अन्ते तीर्थकरनाम प्रकृष्टत्वात् इतिशब्दः पिण्डप्रकृतीयत्ताप्रदर्शनार्थः, एतदिति नामकर्म्म यथोक्तद्विचत्वारिंशद्भेदं भवति, सह बंधनसंघातनामभ्यां ॥
आसां पिंडप्रकृतीनां सम्प्रति भेदप्रतिपत्तये भाष्यं उत्तरनामानेकविधमिति (१७३-१६) उत्तरप्रकृतिनामेत्यर्थः, पिण्डप्रकृतिभेद इतियावत् तद्यथेत्यादिना निर्दिशति, गतिनामपिण्डप्रकृतेश्वत्वारो भेदाः नरकगतिनामादयः, तत्र यस्य कर्मण उद| याभारक इत्युच्यते-व्यपदिश्यते तनरकगतिनाम, एवं तिर्यग्योनिगतिनामादित्रितयमपि वक्तव्यं ।। जातिनाम इत्यादि, जातिनामेति पिण्डप्रकृतिः एकेन्द्रियगत्यादिपंचकापेक्षया, एते च मूलभेदाः पंच, तद्यथेत्या दिना निर्दिशति - एकेन्द्रियजातिनामे
For Personal & Private Use Only
पिंडप्रकृतयः
॥ ३८९ ॥
www.jainelibrary.org