________________
श्री तत्त्वार्थ
हरि०
८ अध्या
॥ ३८८ ॥
Jain Education International
COOL JÚC
चतुर्भेदमित्यादि (१७२-१६) भाष्यं, आनीयंते शेषप्रकृतयस्तस्मिन्नुपभोगाय जीवेनेत्यायुः शाल्योदनादिव्यंजनविकल्पा इव | कांस्यपात्र्याधाराः भोक्तुः परिकल्प्यंते, आनीयते वा तेन तद्भवान्तर्भावी प्रकृतिगण इत्यायुः रज्जुबद्धेक्षुयष्टिभारकवत्, आयतते वा शरीरधारणप्रतिबन्ध इत्यायुः निगडादिवत्, आयुरेवायुष्कं चतुर्गतित्वात् संसारस्य चतुर्भेदं तद्भेदप्रदर्शनार्थमाह-नारक| मित्यादि । तत्र नरका-उत्पत्ति यातनास्थानानि पृथिवीपरिणतिविशेषाः तत्सम्बन्धिनः सच्वा अपि तास्थ्यान्नरका ः तेषामिदमायुर्नारकं, तिर्यग्योनयः एकद्वित्रिचतुः पंचेन्द्रियास्तेषामिदं तैर्यग्योनं, मनुष्याः संमूर्छनगर्भजास्तेषामिदं मानुषं देवानां भवनवास्यादीनामिदं दैवं इतिशब्दः आयुः प्रकृतीयत्ताप्रतिपत्तये ॥ सम्प्रति नामकर्मों तरप्रकृतिभेदख्यापनायाह
गतिजातिशरीरांगोपांगनिर्माणबन्धनसंघ[तसंस्थान संहननस्पर्शरसगंधवर्णानुपूर्व्यगुरुलघूपघातपराघातात पोद्योतोच्छ्वासविहायोगतयः प्रत्येकशरीरसुभगशुभसूक्ष्म सुखरपर्याप्तस्थिरादेययशांसि सेतराणि तीर्थकृत्त्वं च ॥ ८-१२ ।। सूत्रम् ।।
प्राद्दिष्टा द्विचत्वारिंशत् पिण्डभेदा नामकर्म्मणस्तत्प्रतिपादनार्थं सूत्रं, नमयति – परिणमयति प्रापयति नारकादिभवांतराणि जीवमिति नाम, अथवा जीवप्रदेशसम्बन्धिपुद्गलद्रव्य विपाकसामर्थ्याद्यदार्थसंज्ञ, प्रह्वयति नमयतीति नाम, यथा शुक्लादिगुणोपेतद्रव्येषु चित्रपटादिव्यपदेशप्रवृत्तिनियत संज्ञाहेतुरिति, तत्र गतिनाम चतुर्विधं, जातिनाम पंचविधं शरीरनाम पंचधा, अंगोपांगनाम त्रिविधं निर्माणनामैकधा, संस्थाननाम पोढा, संहनननाम षोढा, स्पर्शरसगन्धवर्णनामैकैकविधं, आनुपूर्वीनाम चतुर्विधं, अगुरुलघुनामैकधा, उपघातपरिघातआतपउद्योतउच्छ्रासनामान्येकैकधानि, विहायोगतिनाम द्विविधं, प्रत्येकशरीर
For Personal & Private Use Only
नामकर्मभेदाः
॥३८८३
www.jainelibrary.org