SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ आयुभेक्षाः पूर्ववत् , लाक्षारागसदृश इत्यादि, अनन्तानुवन्ध्यादयः क्रमेण योज्याः,शेषं गतार्थ, एषां क्रोधादीनामित्यादि,(१७२-१३)|| श्रीतस्वार्थ प्रकृतानुपयोगित्वादसम्बन्ध इवायं लक्ष्यते ग्रन्थः, मोहनीयोत्तरप्रकृतिस्वरूपाख्यानमारब्धं, तत्र क्रोधादिप्रत्यनीकाः क्षमाइयः इति का प्रस्तावः', उच्यते, मोहनीयप्रधानानि कर्माणि सर्वदेशोपघातद्वारेण जन्तोर्नरकादिभवप्रपंचप्रापणे विजृम्भंते, मोहस्तत्र ताव८अध्या० | स्कषायजनितः,कषायवशाद्धि स्थितिवन्धस्थितिविशेषः सर्वदुःखावातिष,यथोक्तम्-"जं अइदुक्ख लोए जंच सुहं उत्तमं तिहुअणम्मि। |तं जाण कसायाणं बुड्ढिक्खयहेउ सर्व ॥१॥" अतस्तत्संवरणोपायभूताः क्षमादयो भाष्यकारेणोपन्यस्ताः,सततमेतेऽभ्यसनीयाः कर्मणां लाघवमिच्छता मुमुक्षुणा, माध्यं गतार्थ प्रायः, प्रत्यनीकाः शत्रव उच्यन्ते पुरुषाः,भूतशब्दः उपमानार्थः,शत्रव इवोच्छेदन| साधर्म्यात् , एतदेव स्पष्टयति-प्रतिवातहेतवो भवन्तीति, अत्र च मिथ्यादर्शनमाधकषायाश्च द्वादश सर्वघातिन्यः प्रकृतयः, | संज्वलना नोकषायाश्च देशघातिन्यः । ननु च सूचनात् सूत्रमिति लघु विधेयं सूत्रं, तथैवं भवति-दर्शनचारित्रमोहनीयकषायनोकषायवेदनीयाख्यात्रिद्विषोडशनवभेदाः, इत्येवं विवक्षितार्थसंग्रहः स्यात् , तत्रेदमुक्तं 'दुर्व्याख्यानो गरीयांश्च,मोहो भवति बन्धनः। न तत्र लाघवादीष्टं, छत्रकारेण दुर्वच॥१॥'मिति । सम्प्रति क्रमप्राप्तस्यायुष्ककर्मणश्चत्वार्युत्तरप्रकृतिस्वरूपाण्यमिधित्सुराह नारकतैर्यग्योनमानुषदैवानि ॥ ८-११ ॥ सूत्रम् ।। नारकादीनि कृतद्वन्द्वानि प्रथमाबहुवचनेन निर्दिष्टानि, यस्योदयात् प्रायोग्यप्रकृतिविशेषानुसहायीभूत आत्मा नारकादिभा-U ॥३८७|| वेन जीवति यस्य च क्षयात् मृत उच्यते तदायुः, आह च-"स्वानुरूपाश्रवोपात्तं, पौद्गलं द्रव्यमात्मना । जीवितं यत्तदायुष्कमुत्पाबदायस्य जीवति ॥१॥" आयुषचामादयः उपग्राहकाः प्रथमबद्धस्येति, तस्यैवंभूतस्य कर्मण उत्तरप्रकृतिचतुष्टयं वर्ण्यते, आयुष्कं ॥३८७॥ Jan Education International For Personal & Private Use Only swww.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy