SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ श्रीतत्वार्थ हरि० ८ अध्या . | कषायमोहनीयं मस्वभावः आत्मनः परिणतिविशेषः,अनन्तानुवन्ध्यादिषुक्रमेण शैलस्तम्भसटश इत्याधुदाहरणानि योज्यानि,एषामित्यादिना अति| दिशति, उपसंहार उपनयः, यथा शैलस्तम्भस्तथा अनन्तानुबन्धीत्यादिक्रमेण, तस्मात् कुतश्चिनिमित्तादुत्पन्नो मान आमरणान्न व्ययं गच्छति, जात्यन्तरानुबन्धी निरनुनयोऽप्रत्यवमर्षश्च भवति शैलस्तम्भसदृशः, तादृशं मानमनुसृता नरकेषूपपत्ति प्राप्नुवन्तीति निगमनग्रन्थः, चशब्दः समुचितौ, एवमस्थिस्तम्भसदृश इत्यादिवपि यथायोगमुपनयनिगमने वक्तव्ये, माया प्रणिधिरित्यादि (१७२-३) मीयतेऽनया जन्तोस्तिर्यग्योनादिजन्मेति माया, प्रणिधितापरिणतावासक्तिः, प्रणिधानं वाह्यचेष्टयोपधीयते छाधत इत्युपधिः-अन्यथापरिणामः चित्तस्य, निष्क्रियतेऽनया परः परिभृयत इति निकृतिः, आचर्यते-निगम्यते भक्ष्यते वा परस्तयोपायभूतयेत्याचरणं, तथा बुकमार्जारगृहकोकिलादयः प्रसिद्धाः, परे विप्रलभ्यते यया सा वंचना, दंभन दभी| वेषवचनाघनुमेयः, कुटयते-दह्यते अमुना परः परिणामांतरेणेति कूटं,सत्वग्रहणयंत्रं वा कूटं तद्वद् यः परिणामः, अतिसंधीयतेऽनेन | पर इत्यतिसन्धान, अतीवानुप्रविश्य सन्धान-अन्तरंगताप्रदर्शनं, ततो विनाशः, ऋजोर्भाव आर्जवं तद्विपरीतमनार्जवं कायमनो| वक्रता, इतिशब्द एवार्थे, एवमेतान्येकार्थाभिधायीनि नामानीति । तस्या इति गतार्थ, वंशकुडङ्गसदृशीत्यादि (१७२-५) | वंशकुडंगो-वंशमूलं अतिकुटिलमृजुकर्तुमशक्यमुपायशतेनापि,शेषागतार्था प्रायः,निर्लेखन-वर्धक्यवलेखनीधारोल्लिखितं तत्तु कुटिलं, अत्रापीत्यादि (१७२-६) गतार्थ, लोमो राग इत्यादि (१७२-८) लुभ्यत्यनेन जीव इति लोभः, आत्मरंजनाद्रागः, आप्तेषु | | वस्तुषु गायमभिरक्षणादिकार्य गृद्धिलक्षणं, इच्छा-अमिलाप त्रैलोक्यविषय , मूर्छा प्रकर्षप्राप्ता मोहवृद्धिः,स्निह्यतेऽनेनेति स्नेहः | पुत्रपत्न्यादिषु प्रीतिविशेषः, भविष्यत्कालोपादानविषया कांक्षा,अभिघको बाह्याभ्यन्तरोपकरणविषयाभिमुखः, संगः सक्तिः, शेष ॥३८६॥ ॥३८६।। Jan Education International For Personal Private Use Only
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy