________________
श्रीतत्त्वार्थ
हरि० ८३ध्या.
amMITHORITIONS
कषायमोहनीय
प्रकर्षतो विध्यापयतीति उदकराजीसदृश इति समाख्यायते, अस्य चोदकराजीसादृश्यात् पक्षमात्रकालसूचनं विज्ञेयं, तत्र पर्वतराजीसदृशो नामेत्यादिना ग्रन्थेनोदाहरणानि भावयति, प्रयोगः-पुरुषव्यापारः, विश्रसा-स्वभावः, विमिश्रकग्रहणादुभयप| रिग्रहः, पुरुषव्यापारस्वभावाभ्यां इति, एषां त्रयाणामन्यतमेन हेतुनेति सम्बन्धः, सम्प्रति क्रोधोत्पत्तेः निमित्तमाख्यायति| 'इष्टार्थवियोजनादनिष्टार्थसंयोजनादभिलषितालामादित्यादीनां कारणानामन्यतमेन हेतुना यस्योत्पनः क्रोध इत्यादि, भवान्तर| मप्यनुबध्नाति, निरनुनयः इत्यनुनयः-परचाटुकरणादिक्रिया तदभावाभिरनुनयः, अप्रत्यवमर्श इत्यविद्यमानपश्चात्तापपरिणामः, | शेषं गतार्थ, भूमिराजीसदृशो नामेत्यादि अप्रत्याख्यानकषायानाश्रित्योच्यते,आत्तस्नेहाया इति गृहीतापीतस्नेहायाः वायुना
वाऽभ्याहताया इत्यनेकं कारणं भूमिराजेरावेदयति, जघन्येनाष्टमासस्थितिरुत्कर्षेण वर्षस्थितिरिति, एवं यथोक्तनिमित्त इत्या| दिना दृष्टान्तेन दार्शन्तिकमर्थं समीकरोतीति सुज्ञान,वालिकाराजीसदृशानामित्यादि सुज्ञानं,जघन्येनाहोरात्रमुत्कर्षेण संवत्स| परिमाणोऽपीति शेषं गतार्थ, उदकराजीसदृशो नामेत्यादि, प्रायः सुज्ञानं, विदुष इति क्रोधपरिणामामिज्ञस्य, पश्चात्तापः। प्रत्यवमर्षः दुष्टं कृतमित्यादिकः, शेषं सुज्ञानं, येषामित्यादि, अनन्तानुबन्ध्यादिचतुर्विधक्रोधक्षपणान् मुक्तिरवश्यंभाविनीति, सम्प्रति मानचातुर्विध्यप्रदर्शनायाह-मान इत्यादि (१७१-१८) सर्वदाऽऽत्मपूजाकांक्षित्वान्मानः, स्तम्भनात् स्तम्भोऽवनते|रभावात् , गर्यो जात्यादिः, उत्सेको ज्ञानादिभिराधिक्येऽभिमानः आत्मनः, अहंकारो अहमेव रूपसौभाग्यादिसम्पन्न इति, दर्पो| बलकृत इति, मद्यादिमदवदनालापदर्शनान्मदः, परोपहसनप्रायत्वात् स्मयः, सर्व एते मानविशेषा इत्येतेऽनन्तरमिति । क्रोध
||॥३८५॥ | स्वेवास्यापि तीव्रादिभावदर्शनायाह-तस्यास्येत्यादि, तस्येति पूर्वोद्दिष्टस्यास्येति पर्यायभेदेन निर्दिष्टस्य, आदिग्रहणान्मन्दो, मध्य
याह-मान इत्यादि (भमानः आत्मनः, अहंकारो अहमेवफा इत्येतेऽनर्थान्तरमिति । क्रोध-|
॥३८५॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org