________________
सूत्र निसर्गधि
गमौ4
५
श्रीतच्चार्थ- चैतत् तदभिधित्सयाऽऽहहरि० वृत्तौ ।
तन्निसर्गादधिगमावा (सूत्रं.३) १ अध्या०
**प्रक्रमाद्गम्यमानस्याप्यस्य तदिति सर्वनाम्ना परामर्शः,सर्वविनेयानुग्रहायातिसूक्ष्मातिबादरग्रंथप्रारम्भकापोहेन मध्यमारम्भख्यापनार्थः सम्यग्दर्शनं मूलहेतुद्वैविध्याद् द्विविधमिति खत्रसमुदायार्थः,अवयवार्थमाह भाष्यकार:-'तदेत'दित्यादिना (पृ-६-९२) तच्छब्द एतच्छब्दार्थः, तदेतदनन्तराधिकृतं सम्यग्दर्शनं द्विविधं भवति, निमित्तद्वैविध्यात् , भनेनैव व्यपदिशबाह-'निसर्गे- त्यादि, अपरोपदेशात्तथाभव्यत्वादितः कोपशमादिजं तु निसर्गसम्यग्दर्शनं, परोपदेशतस्तु बाह्यनिमित्तापेक्षं कम्मोपशमादि| जमेवाधिगमः सम्यग्दर्शनमिति, वाशब्दो निमित्तदर्शनपरः, नैकस्यैव द्वयं निमित्तमित्यर्थः, एतदेव सूत्रेऽप्यसमासकरणे प्रयोजनम् , | अन्यथा तन्निसर्गाधिगमाभ्यामिति स्यात्, वाशब्दोऽप्यतिरिच्येत , अथ कथं तदेवं व्यपदिश्यते-निसर्गसम्यग्दर्शनमधिगमसम्यग्दर्शनं चेति, अत्राह-निसर्गादि'त्यादि, अत्रेतिशब्दस्तसादर्थे, यत्तदोर्नित्याभिसम्बन्धात् , यस्मानिसर्गादधिगमादा वक्ष्यमाणरूपादुत्पद्यत एतदिति, तस्माद्यवांकुरादिवत्तेनैव व्यपदिश्यते निसर्गसम्यग्दर्शनमधिगमसम्यग्दर्शनं चेति, अत्राह-यदि मुख्यया | वृत्त्या हेतुः प्रतिपाद्यते सूत्रेण तदैवं सति तदेतत् सम्यग्दर्शनं द्विविधमित्ययुक्तं विवरणं, एवं तु स्यात्-तस्य सम्यग्दर्शनस्य द्वौ हेतू, | यतः सूत्रेणाभिसमीक्षितं तद् द्विविधत्वमिति,एवं पर्यनुयुक्त आह-'विहेतुकं द्विविध मिति, द्वौ निसर्गाधिगमारव्यौ प्रत्येकासमासकरणज्ञापितौ हेतू यस्य तद् द्विहेतुकं, न तु तन्मुख्यभेदप्रतिपादनया, निर्देशस्वामित्वेत्यादिसूत्रे सम्यग्दर्शनभेदस्याभिधीयमानत्वादिति । आह-सम्यग्दर्शनोत्पत्तौ निसर्गः कारणमभ्युपेयते, स कः किमात्मको वेति?,अत्रोच्यते-'निसर्गः परिणाम'
Insthanimumustimmi mein Humanit internat intainthindeaminental
६१॥
For Personal Private Use Only