SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ तश्चार्थहरि० मित्यत्र सप्तम्यर्थकथन किमर्थ ?, उच्यते, प्रायेणानयोरभेद ग्यापनार्थ, तथा च प्रायः षष्ठीसप्तम्योरभेद एव दृश्यते, यथा |गिरेस्तरवः गिरौ तरब इति, ये हि यस्यावयवास्ते तस्मिन् गवन्ति, एवमत्रापि, त(य)जीवादीनां श्रद्धानं ततस्तद्विपयमिनि, एवं | तवार्थश्रद्धानमित्येतत्पदं विधृत्य सम्यग्दर्शनपदं तु पूर्वमेव विवृतमिति विहाय यधेदमुत्पन्नं सत् परेणापि जायते तथा सलिङ्गमैदंपर्येणाभिधातुमाह-'तदेव' मित्यादि, यतः श्रद्धानं तेषु प्रत्ययावधारणं, तदेनं व्यवस्थिते सति प्रशमश्च संवेगश्चेत्यादिद्धन्द्वः, तत्र प्रशमः-क्रोधक्षयोपशमादेः सत्यसति वा दोपनिमित्ते क्षान्तिपरिणामः,संवेगः सम्भीतिर्नरकादिगत्यालोचनात, मोक्षकशरणता | निर्वेदो, विषयेषु दोषदर्शनेन. अनुकंपा दुःखितेषु कारुण्यं, आस्तिक्यम्-अस्ति जीवादितचमिति मतो भावः, एषां प्रशमसंवेगनिर्वेदानुकम्पास्तिक्यानामभिव्यक्तिः-प्रकटता सेव लक्षणं-चिह्न यस्य तत्तथाविधं तत्वार्थश्रद्धानं सम्यग्दर्शनमिति । एवंभृतं यत्त वार्थश्रद्धानं तत् सम्यग्दर्शनं, न पुनर्वचनमात्रकमेव, एतच्च किल समस्तप्रशमादिलिङ्गयुक्तं नैश्चयिकं, 'जं मोणंति पासहा, तं संमंति |पासहा' ( यन्मौनमिति पश्यत तत् सम्यगिति पश्यत, यत् सम्यगिति पश्यत तत् मौनमिति पश्यत) इत्यादिवचनविषयं, आस्तिक्याद्यन्यतरलिङ्गयुक्तं तु व्यावहारिकं, एश्वानुपूर्व्या च प्राय आस्तिक्यादिभावः, न परमार्थतोऽप्रतिपन्नजिनवचनानां अनुकम्पादयः, प्रशमादिक्रमोपन्यासस्तु यथाप्राधान्यमिति । अत्राह-जिनवचनानभिज्ञानां मापतुषादीनां कथं यथोदितं तच्चार्थश्रद्धानमना| भोगप्रधानत्वादिति, अत्रोच्यते, अम्त्यनाभोगो ज्ञानावरणोदयजन्यः, क्षयोपशमात्तु दर्शनविपरीतरुचिनिबन्धनस्य मिथ्यात्वमो हनीयस्य तदभावाद्यत्रावगमः तत्राविपरीतैव श्रद्धा,इतरत्राप्यप्रतिहता तच्छक्तिर्यथाऽनाबाधं तथैव प्रवृत्तेरित्यत एव मार्गदेशनानुसारि| णोऽसद्हरहिताश्च सम्यग्दृष्टयो भयन्तीत्यभिदधति विद्वांस इत्यलं प्रसङ्गन, "प्रकृतं प्रस्तुमः,तचेदं सम्यग्दर्शनं यतो भवति यद्विधं । ॥ ॥ Jan Education international For Personal & Private Use Only
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy