________________
श्रीतस्वार्थ
हरि० ८ अध्या०
पशमिकं सदैव सम्यक्त्वमन्तमुहर्तकालावच्छिन्न, उपशमसम्यक्त्वं हि नित्यमेवोपहन्यतेऽनन्तानुबंधिमिः, यथाह-"संयोजनोद
मोहनीय| यश्चेत् स्यादासाद्येत नाम सम्यक्त्वम् । तस्य तु विशुद्ध्यतस्तदभावात् सम्यक्त्वमनवद्यम् ॥१॥" क्षायोपशमिकसम्यक्त्वपुद्गलचरम
h| भेदाः ग्रासानुभयकाले वेदकसम्यक्त्वं, उदितमिथ्यात्वपुद्गलक्षये अनुदितमिथ्यात्वोपशमे च क्षायोपशमिकमुक्तं, क्षायिकं तु निरवशेषद
निमोहक्षये भवति सम्यक्त्वं, न च विशुद्ध पुद्गलक्षये तत्त्वार्थश्रद्धानलक्षणस्य परीणामस्याभावः, यथाह-"प्रक्षीणे तर्हि सम्यक्त्वे, | सम्यग्दृष्टिः कथं मतः । क्षयो द्रव्यस्य तवेष्टः, परिणामस्य न क्षयः ॥१॥" सम्यक्त्वमिथ्यात्ववेदनीयमधुनोच्यते, प्रथमतः सम्पत्यमुत्पादयन् करणत्रयं विधायोपशमसम्यक्त्वं प्रतिपद्यते, ततो मिथ्यात्वदलिकं त्रिपुंजीत्वेन परिणमयति शुद्धमिश्राशुद्धत्वेन, यथाह-"सम्यक्त्वगुणेन ततो विशोधति कर्म तच्च मिथ्यात्वम् । यत् शकृत्प्रभृतिमिः शोध्यन्ते कोद्रवा मदनाः ॥१॥" |सम्यमिथ्यात्वं च तद् वेदनीयं चेत्येवं पूर्वयोरपि द्रष्टव्यं, इतिशब्दो दर्शनमोहेयत्ताप्रतिपत्तये दर्शनमोहनीयप्रकृतिबन्धमाख्याय सम्प्रति चारित्रमोहप्रकृतिबन्धाचिख्यासया जगाद-चारित्रमोहनीयाख्यो द्विविध इत्यादि, द्विविकल्पश्चारित्रमोहनीयप्रकृतिबंधः, कषायवेदनीयं नोकषायवेदनीय चेति, एतावद्भेदं मूलतश्चारित्रमोहनीयं, यथाक्रमं तत्स्वरूपाख्यानायाह-तत्रेत्यादि, तयोश्चारित्रमोहभेदयोः कषायवेदनीयाख्यस्तावदयं षोडशभेदः,तद्यथेत्यनेन मेदानावेदयते, अनन्तानुबन्धी क्रोध इत्यादि, अनन्तः संसारो नारकतिर्यक्मनुजदेवजन्मजरामरणपरंपरालक्षणः तदनुबन्धादनन्तानुबंधिनः संयोजनाच क्रोधामानमायालोभाः, तत्र क्रोधः-अप्रीतिलक्षणः, मानो गर्वः, माया-शाठथं, लोभो गाय, तृष्णेत्यनान्तरम् , आह च-"संयो- ॥३८॥ जयंति यनरमनन्तसंख्यैर्भवेः कषायास्ते । संयोजनादनन्तानुबंधिता वाप्यतस्तेषां ॥शा" अनन्तानुबंधिनां च तावत् पर्वतराजिशैल
॥३८०॥
Jan Education r
ational
For Personal Private Use Only
www.jainelibrary.org