SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ श्रीतार्थ - हरि ८ अध्या० ॥ ३७८ ॥ Jain Education International | रस्तमनुबध्नन्तीति तच्छीलाश्चेत्यनन्तानुबन्धिनः क्रोधादयः, अविद्यमानं प्रत्याख्यानं येषामुदये ते त्वप्रत्याख्यानाः क्रोधादयः, | अपरे पुनरावरणशब्दमत्रापि सम्बभान्ति, अप्रत्याख्यानावरणा इति, अल्पं प्रत्याख्यानमप्रत्याख्यानं - देशविरतिः तदप्यावृण्वंति, किमुत सर्वप्रत्याख्यानमिति, मूलगुणप्रत्याख्यान विघातवर्त्तिनः प्रत्याख्यानावरणाः क्रोधादयः, स्वल्पनिमित्तप्राप्तावपि युगपत् | संज्वलनाः संज्वलनाः क्रोधादयः, एवं चानन्तानुबन्ध्यादीनामेकैकशः क्रोधमानमायालोभाख्या विकल्पा भवन्ति, अनन्तानुबन्धिनः क्रोधादयः, एवमप्रत्याख्यानाः प्रत्याख्यानावरणाः संज्वलनाश्चेति, एवमेते षोडशभेदाः कषायवेदनीयाः सूचिताः, हास्येत्यादिना | सूत्रावयवेन नोकषायवेदनीयमाचष्टे नवभेदम्, एतदष्टाविंशतिविधमावेदितं मोहनीयं कर्म्म सूत्रेणेति, अधुना भाष्यमनुश्रियते - | त्रिद्विषोडशनवभेदा यथाक्रममित्यादि भाष्यं (१६७-७), उक्तार्थ चैतद्भाष्यं, दर्शनचारित्रकषायनोकषायप्रकृतयः क्रमेण | त्रिद्विषोडशनवभेदाः, अनेनाष्टाविंशतिविधता प्रतिपादिता मोहनीयस्य, मोहनीयबन्ध इत्यादि, यथोक्तकारकप्रसिद्धो मोहशब्दः द्विप्रकारो - दर्शनमोहनीयाख्यः चारित्रमोहनीयाख्यश्च तच्चार्थश्रद्धानं दर्शनं, तन्मोहनात् दर्शनमोहनीयं, प्राणातिपातादिविरतिः | | चारित्रं तन्मोहनात् चारित्रमोहनीयं तत्र दर्शनमोहनीयाख्यस्त्रिभेद इत्यादि, तत्र तयोदर्शनचारित्रमोहनीययोर्दर्शनमोहनीयाख्यस्त्रिभेदः प्रकृतबन्धस्तावदुच्यते, तद्यथेत्यादिना, तमेव प्रदर्शयति-मिथ्यात्व वेदनीयमित्यादि, तत्र दर्शनमोहनीय| त्रैविध्ये सत्यपि बन्धो भवत्येकविध एव तच्चार्थाश्रद्धानलक्षणमिथ्यात्वंवेदनीयस्य, न सम्यग्मोहनी यस्य, नापि सम्यग् मिथ्यात्वमो - | | हनीयस्येति, यतो मिध्यात्वपुद्गला एवैकरूपबद्धाः सन्तः कर्त्रात्मनोऽध्यवसायविशेषात् सर्वथा शोधिता मिथ्याभावपरिणामं त्याजिता सम्यगु मिथ्यात्वपरिणतिं वा प्रापिताः सम्यक्त्वसम्यक्त्वमिथ्यात्वव्यपदेशभाजो भवन्तीति, नत्वेवंविधा एव बध्यन्ते, दरविशुद्धास्तु For Personal & Private Use Only मोहनीयभेदाः ||३७८ ॥ www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy