SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ श्रीतचार्थ हरि० | ८ अध्या. दर्शनचारित्रमोहनीयकषायनोकषायवेदनीयाख्यास्त्रिद्विषोडशनवभेदाः सम्यगमिथ्यात्वतदुभयानि कषायनोकषायो अनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणसंज्वलनविकल्पाश्चैकशः क्रोध मोहनीयमानमायालोमा हास्यरत्यरतिभयशोकजुगुप्सास्त्रीनपुंसकवेदाः॥८-१०॥ सूत्रम् ।। मेदाः मोहनीयमूलप्रकृतेरष्टाविंशतिरुत्तरप्रकृतयः संग्रहमेदरूपाः सूत्रेणैव निर्दिष्टाः, मोहनीयशब्दः प्रत्येकममिसम्बध्यते, दर्शनमोहनीयं चारित्रमोहनीयमिति संग्रहेण निर्देशः, पुनश्चारित्रमोहनीयमुत्तरभेदापेक्षया संग्रहेणैव निर्दिष्टं, तद्भदाख्यानं तु कषायवेदनीयं | नोकषायवेदनीयमिति, दर्शनमोहनीय इत्यादिका आख्या यासामुत्तरप्रकृतीनां तास्तथा निर्दिष्टाः, तासां भेदप्रतिपादनार्थमाह | -त्रिद्विषोडशनवभेदा इति निर्देशक्रमेणैव त्र्यादयो भेदा यासान्तास्तथोक्ताः, दर्शनमोहनीयोत्तरप्रकृतिस्त्रिभेदा, चारित्र-IN मोहनीयोत्तरप्रकृतिदिभेदा, तौ चामू विकल्पो-कषायवेदनीयं षोडशमेदं, नोकषायवेदनीयं नवभेदमिति, एवमेता उत्तरप्रकृतयो| | अष्टाविंशतिः सूचिता मोहनीयमूलप्रकृतेः । अधुना ज्यादिभेदान् सूत्रेणैव प्रतिपादयति सम्यक्त्वमिथ्यात्वतदुभयानीति, सम्यत्वं मिथ्यात्वं तदुभयमिति द्वन्द्वनिर्देशः, तत्त्वार्थश्रद्धानलक्षणं सम्यक्त्वं, तद्विपरीतं मिथ्यात्वं, तदुभयमिति सम्पमिथ्यात्वं, तत्त्वार्थश्रद्धानाश्रद्धानलक्षणं,एवमेतत् त्रिविधं दर्शनमोहनीयं सूचितं,कषायाकषायावित्यनेन चारित्रमोहनीयभेदद्वयाख्यानं,अन-12 न्तानुबन्धिप्रभृतिकषायास्त एव मोहनीय, अकषाया हास्यादयः केवलाः कपायसम्पर्कशून्याः खकार्यासमर्था इत्यकषायाः, सदैव हि कषायसंसक्ताचारित्रमोहनीयव्यपदेश्याः, अल्पकषायकार्यत्वादकषाया इति, तत्र कषायमोहनीयभेदप्रदर्शनार्थमाह सूत्रशकलं ॥३७७।। अनन्तानुवन्ध्यप्रत्याख्यानप्रत्याख्यानावरणसंज्वलन विकल्पाश्चैकशः क्रोधमानमायालोभा इति, अनन्तः-संसा-| ॥३७७॥ Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy