SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ वेद्यप्रकती श्रीतचार्थ हरि ८ अध्या० रणमवधिदर्शनावरणं केवलदर्शनावरणं च । स्वापो-निद्रा सुखप्रतियोधलक्षणा वेदनीयम्-अनुभवनीयं, निद्रा चासौ वेदनीयं चेति सर्वत्र समानाधिकरणं, दुःखप्रतियोधलक्षणा निद्रानिद्रा, उपविष्टशयनलक्षणा प्रचला, संक्रमणमाचरतः शयनं प्रचलाप्रचला, स्त्यानगृद्धिः स्त्यायतीति स्त्यानं स्तिमितचित्तो नातीव विकस्वरचेतन आत्मा स्त्यानस्य स्वापविशेष सति गृद्धिः-आकांक्षा | मांसमोदकदन्तायुदाहरणप्रसिद्धा, स्त्यानद्धिरिति वा पाठः, तदुदयाद्धि महाबलोलचक्रवर्तितुल्यबलः प्रकर्षप्राप्तो भवति,अन्यथा | जघन्यमध्यमावस्थामाजोऽपि संहननापेक्षया महत्येवेति स्त्यानस्य ऋद्धिः स्त्यानद्धिरिति, चशब्दःसमुच्चयवृत्तिः, दर्शनावरणभेदा चक्षुर्दर्शनावरणादयो निद्रावेदनीयादयश्चेति वाक्यार्थः, उक्तार्थानुगाम्येव भाष्य-चक्षुर्दर्शनावरणमित्यादि(१६८-१०)गतार्थ, | दर्शनावरणं नवभेदं भवतीत्यंते निगमितं नवभेदमेवेति । सम्प्रति यत्तदागमे प्रसिद्ध वेदनीयत्वेन तृतीयमूलप्रकृतिरूपं तदुत्तरप्रकृतिविवक्षया सूत्रकार आह सदसदेचे ॥ ८-९॥ सूत्रम् ॥ | उत्तरप्रकृतिभेदमात्रस्य विवक्षितत्वात् प्रथमैव, सद्धेद्यमसद्वेद्यं चेति वेदनीयमूलप्रकृतरुत्तरप्रकृतिद्वयं भवति,तत्रामिमतमिष्टमा| त्मनः कर्तुरुपभोक्तुर्मानुजदेवादिजन्मसु शरीरमनोद्वारेण सुखपरिणतिरूपमागंतुकानेकमनोजद्रव्यक्षेत्रकालभावसम्बन्धसमासादितपरिपाकावस्थमतिबहुभेदं यदुदयाद्भवति तदाचक्षते सद्वेदनीयम् , अभिहितविपरीतमसद्धेदनीयं, एवंविधानुसारि च भाष्यम्|सद्वेचमित्यादि, सच्छब्दः प्राशस्त्ये, प्रशंसा चात्मनोऽभिमत विषयत्वं, असच्छब्दस्तद्वैपरीत्ये, चशब्द उत्तरप्रकृतिसमुचितौ, वेदनीय वेद्यं, द्विभेदं-द्विप्रकार, भवतीति ।। सम्प्रति चतुर्थमूलप्रकृतेमोईनीयनाम्न उत्तरप्रकृतिप्रंपचख्यापनायाह सूत्रं ||३७६।। ॥३७६॥ Jan Education r ational For Personal - Only
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy