________________
श्रीतत्वार्थ
हरि०
८ अध्या०
| काशाभ्रादिवद्वा, तथा श्रोत्रेन्द्रियोपलब्धिः श्रुतं, शेषेन्द्रियमनोविज्ञानं च श्रुतग्रन्थानुसारि स्वार्थाभिधानप्रत्यलं श्रुतज्ञानं, तद|| नेकभेदमाचक्षते प्रवचनामिज्ञाः, यथाह-"जावंति अक्खराई अक्खरसंजोग जत्तिआ लोए । एवइआ पयडीओ सुअनाणे होंति |दर्शनानायचा ॥१॥"तस्यावृतिः श्रुतज्ञानावरणम् , एतदपि देशघातीति, अधोगतबहुतरपुद्गलद्रव्यावधानादवधिः, पुद्गलद्रव्यमर्यादयैव ।
वरणानि वाऽऽत्मनः क्षयोपशमजः प्रकाशाविर्भावोऽवधिः-इन्द्रियनिरपेक्षः साक्षात् ज्ञेयग्राही लोकाकाशप्रदेशमानप्रकृतिभेदः, तदावरणमव[धिज्ञानावरणमिदमपि देशघात्येव, तथाऽऽत्मनो मनोद्रव्यपर्यायानिमित्तीकृत्य यः प्रतिभासो मनुष्यक्षेत्राभ्यन्तरवर्ति पल्योपमासं| ख्येयभागावच्छिन्नपश्चात्पुरस्कृतपुद्गलद्रव्यविशेषग्राही मनःपर्यायज्ञानसंज्ञस्तस्यावरणं देशघाति मनःपर्यायज्ञानावरणं, समस्तावरणक्षयाविर्भूतमात्मप्रकाशतवमशेषद्रव्यपर्यायग्राहि केवलज्ञानं, तदाच्छादनकृत् केवलज्ञानावरणमेतच्च सर्वघातीति ॥ सम्प्रति दर्शनावरणोत्तरप्रकृतिप्रतिपिपादयिषया सूत्रमाहचक्षुरचक्षुरवधिकेवलानां निद्रानिद्रानिद्रामचलाप्रचलाप्रचलास्त्यानगृद्धिवेदनीयानि च ॥८-८॥ सूत्रम् ॥ |
चक्षुरादयः कृतद्वन्द्वाः षष्ठया निर्दिष्टाः, प्रस्तुतावरणसम्बन्धात् वेदनीयसम्बन्धनिराकरणप्रतिपत्तेश्च, दर्शनावरणप्रकृतिसामर्थ्याचक्षुरादयो दर्शनशब्देन सहामिसम्बन्ध्याः, निद्रादयः पंच स्त्यानगृङ्ख्यन्ताः कृतद्वन्द्वाः वेदनीयशब्दोत्तरनिर्दिष्टाः समानाधिकरणप्रतिपत्त्यर्थ, पश्यत्यनेनात्मेति चक्षुः, सर्वमेवेन्द्रियमात्मनः सामान्यविशेषावबोधस्वभावस्य करणद्वारं, तद्द्वारकं च सामा-| न्यमात्रोपलंभनमात्मपरिणतिरूपं चक्षुर्दर्शनं, तल्लब्धिघाति चक्षुर्दर्शनावरणं, शेषेन्द्रियमनोविषयमविशिष्टमचक्षुर्दर्शनं तल्लन्धिघाति
||३७५॥ अचक्षुर्दर्शनावरणं, अवधावपि प्रथमसंपाते. सामान्यमात्रोपलंभनमवधिदर्शनं, केवलदर्शनमपि सामान्योपयोगलक्षणं, एतयोराव
MADHDHINDHIDHINDISADHANAPHEROIN HINDHIMANIROHINADIHIN WiPHIRE
॥३७५||
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org