SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ श्रीतस्वार्थहरि० ८ अध्या० ॥३७४॥ Jain Education International रमेदानां संख्याप्रदर्शनमिति । तत्र पंचभेदो ज्ञानावरणप्रकृतिबन्धः क्रमेण यावत् पंचभेदोऽन्तरायप्रकृतिबन्ध इत्येवमेतद्यथाक्रमं प्रत्येतव्यं, इतः प्रभृत्युत्तरकालं यदभिधास्याम इति । तद्यथेत्यनेन सूत्रं संबभाति, पंचादिभेदा ज्ञानावरणादयोऽभिहितास्तद् यथा ते व्यवस्थिता येन क्रमेण स्वरूपेण च पंचादिभेदास्तथाऽष्टावपि मूलप्रकृतयः प्रतिपदं प्रदर्श्यत इत्याह मत्यादीनां ॥ ८-७ ॥ सूत्रम् ॥ मतिरादिर्येषां श्रुतावधिमनः पर्याय केवलज्ञानानामिति, तद्गुणसंविज्ञानो बहुव्रीहिः, तानि मत्यादीनि तेषां मत्यादीनामावरणं, मत्यादीन्यात्रियन्तेऽनेनेति, अपरेऽऽपि प्रतिपदं पंचापि पठंति — मतिश्रुतावधिमनः केवलानामिति, एवं चापार्थकमिवोपलक्ष्यते, यतोऽनन्तरसूत्रेण पंचापि भेदा ज्ञानावरणादय इत्यवधृतमेव, निर्ज्ञाताश्च स्वरूपतः प्रथमाध्याये व्याख्यातत्वादत आदिशब्द एव युक्तः, तेषां मत्यादीनां ज्ञानानां पंचैवावरणानि भवन्ति, तानि तु प्रतीतान्येव, तद्यथा - मतिज्ञानावरणं श्रुतज्ञानावरणं अवधिज्ञानावरणं मनःपर्यायज्ञानावरणं केवलज्ञानावरणमिति, तत्र आत्मनो ज्ञस्वभावस्य - प्रकाशस्वरूपस्य ज्ञानावरणक्षयोपशमक्षयसम्मु| द्भवाः प्रकाशविशेषा मतिज्ञानादिव्यपदेशाः पर्याया बहुविकल्पाः, तत्र ज्ञानावरणस्य स्वस्थानाद्यावन्तो विकल्पाः संभवन्ति सर्वे ते ज्ञानावरणग्रहणेनैव ग्राह्मा इति भाष्यार्थः, विकल्पा भेदाः, तद्यथा-इंद्रियानिन्द्रियनिमित्तत्वादवग्रहादयो मतिज्ञानस्य, अङ्गानङ्गादिविकल्पाः श्रुतज्ञानस्य, भवक्षयोपशमजप्रतिपात्यादिविकल्पाश्चावधिज्ञानस्य, ऋजुविपुलमतिविकल्पौ मनःपर्यायज्ञानस्य, सयोगायोगभवस्थादिविकल्पाः केवलज्ञानस्येति, तत्रेन्द्रियनिमित्तं श्रोत्रादिपंचकसमुद्भवं क्षयोपशमजं ज्ञानं योग्यदेशावस्थितस्वविषयग्राहि, अनिन्द्रियं तु मनोवृत्तिरोधज्ञानं च तदेतन्मतिज्ञानमात्रियते येन तन्मतिज्ञानावरणं, देशघाति लोचनपटलवच्चन्द्रप्र For Personal & Private Use Only IED THEIR DOGETHER, WHEN CONNAH MHASARAMBHA COM ON D ज्ञाना वरणानि ॥ ३७४॥ www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy