________________
श्रीतस्वार्थहरि०
८ अध्या०
॥३७३ ॥
Jain Education International
कृतद्वन्द्वाः प्रथमया निर्दिष्टाः क्रमस्त्वेषामर्थापेक्षः, तथा च ज्ञानदर्शनावरणोदयजनिता सर्वसच्चानां भवव्यथा, तां च वेदयमा| नोऽपि मोहामिभूतत्वान्न विरज्यते, अविरक्तश्च देवमानुपतिर्यङ्ङ्गारकायुषि वर्त्तते, न चानामकं जन्म, जन्मवंतश्चानुस्मृताः सदैव गोत्रेण, तत्र संसारिणां सुखलेशानुभवः सान्तरायः सर्व इत्यन्तरायनिर्देशः, आय इति सूत्रक्रमप्रामाण्यादित्यादि भाष्यं (१६७ - १३) आद्यः प्रथमो मूलप्रकृतिबन्धः, इतिकरणः शब्दपदार्थकः, सूचनात् सूत्रम्, अनेकभेदं कर्म्म यतः सूचयति, क्रमः | सन्निवेशस्तस्य प्रामाण्यम्, अन्यप्रमाणादिवत् समासः, तस्मात् सूत्रक्रमप्रामाण्यादिति हेत्वर्था पंचमी, प्रकृतिबन्धमिति सामा| न्याभिधानेऽपि मूलप्रकृतिबन्धमेव काका प्रतिपादयति सूत्रकारः, यतः - पंचनवेत्यादिनोतरप्रकृतिबन्धं वक्ष्यति, स मूलप्रकृतिबन्धोऽष्टप्रकारः, तद्यथा, ज्ञानावरणमित्यादि, गतार्थं भाष्यं, इतिकरणः शुभाशुभस्य कर्मण इयत्ताप्रतिपत्तये प्रायोजीति । किंचान्यदित्यादिना सूत्रस्थं सम्बन्धमाचष्टे, न केवलं प्रकृतिबन्धो मूलविशेषणः, उत्तरोपपदविशेषणश्चेत्यनेन प्रतिपादयन्नाह - पंचनवद्वयष्टाविंशतिचतुर्द्विचत्वारिंशद्विपंचभेदा यथाक्रमम् ॥ ८-६ ॥ सूत्रम् ॥
पंचादीनां कृतद्वन्द्वानां भवनविभक्त्या निर्देशः, एते भेदाः पंचादयो यासां मूलप्रकृतीनां ताः पंचादिभेदाः, यथाक्रममि| त्यनन्तरसूत्रक्रमं प्रत्यवमृशति, अनन्तरसूत्र क्रमप्रामाण्याद् ज्ञानावरणाद्यमिसम्बन्धः, ताश्च पंचकादिकान् भेदान् स्वभावतः प्रति मूलप्रकृतिं वक्ष्यति, ता एव मूलप्रकृतीरमिसम्बन्धयन्नाह - स एष प्रकृतिबन्धोऽष्टविधोऽपीत्यादि (१६८ - १) आत्मपुद्गल - | द्रव्यस्यान्वयित्वात् स इत्यनेन सामान्यमात्रपरामर्षः, एष इत्यन्वयिनः परिणामविशेषप्रतिपत्ति', प्रकृतिबन्ध इति मूलप्रकृतिबन्धोऽष्टप्रकारोऽपि भूयः एकैको ज्ञानावरणादिः पंचादिभेदो मंतव्यः क्रमेण भाष्यकृदर्शयति--पंच भेद इत्यादिना भाष्येण, उत्त
For Personal & Private Use Only
उत्तर
प्रकृतयः
॥ ३७३ ॥
www.jainelibrary.org