SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ मूलप्रकृति श्रीतवार्थ हरि० ८ अध्या बन्धः गुणादिभावोऽनुभावः, यथाऽऽह-"तासामेव विपाकनिबंधो यो नामनिर्वचनभिन्नः । स रसोऽनुभावसंज्ञस्तीब्रो मन्दोऽथ मध्यो। वा ॥१॥" पुनस्तस्यैव कणिकादिपरिमाणान्वेषणं प्रदेशः, कर्मणोऽपि पुद्गलपरिणामनिरूपणं प्रदेशबन्ध इति, यथोक्तं-"तेषां पूर्वो-| क्तानां स्कन्धानां सर्वतोऽपि जीवेन । सर्वैर्देशैर्योगविशेषाद् ग्रहणं प्रदेशाख्यं ॥१॥ प्रत्येकमात्मदेशाः कर्मावयवैरनन्तकैर्बद्धाः । कर्माणि बनतो मुंचतश्च सातत्ययोगेन ॥२॥" इतिः कर्मणो मौलबंधभेदेयत्ताप्रदर्शनार्थः,ज्ञानावरणादिकर्मणामष्टानामपि प्रकृत्या| दिमेद एव मौलमिति ॥ उत्तरसूत्रसम्बन्धार्थस्तत्रशब्दः, तत्र तेषु चतुर्पा प्रत्येकं प्रकृत्यादिलक्षणेषु भेदेषु प्रथमो भेद उच्यते, स च | वेधामूलप्रकृतिबन्धः उत्तरप्रकृतिबन्धश्च ।। मूलप्रकृतिवन्धप्रतिपत्यर्थमिदं वचनं| आयो ज्ञानदर्शनावरणीयवेदनीयमोहनीयायुकनामगोत्रान्तरायाः॥८-५॥ सूत्रम् ॥ _ आदौ भव आद्योऽनन्तरातीतसूत्रविन्याससंश्रयणात् , ज्ञानदर्शनयोरावरणशब्दः प्रत्येकमभिसम्बध्यते, ज्ञानावरणं दर्शनावरणमिति, ज्ञानमवबोधलक्षणो विशेषविषयः पर्याय आत्मनः, तथा दर्शनपर्यायः सामान्योपलंभलक्षणः, तयोरावरणं आवरणमात्रियते वाऽनेनेति भावकरणयोयुत्पत्तिः, सुखदुःखस्वरूपेणानुभवितव्यत्वाद्वेदनीयमिति कर्मसाधनं, मोहयति मोहनं वा मुह्यतेऽनेनेति । वा मोहनीयं,एत्यनेन गत्यंतराणीत्यायुः, आयुरेव चायुष्क, स्वार्थे कन् ,नामयतीति नाम, प्रहयत्यात्मानं गत्याधमिमुखमिति,नम्यते | वा-प्रह्वीक्रियतेऽनेनेति वा नाम, कर्तरि करणे वा व्युत्पाद्यते, गोत्रं उच्चनीचभेदलक्षणं तद्गच्छति-प्रामोत्यात्मेति गोत्रं, अन्त - | यतेऽनेनात्मनो वीर्यलाभादीति अन्तरायः अन्तर्द्धानं वाऽऽत्मनो वीर्यादिपरिणामस्खेत्यन्तरायः 'कुत्यलुटो बहुल'मिति लक्षणसद्भावात् सर्वत्र साधिमा प्रतिपत्तव्यः, तुल्यार्थत्वात् संकीर्यते संज्ञा इति चेत्तन्न, प्रसिद्धतरत्वाद्गोसदिसंज्ञावत् , एवमेते ज्ञानावरणादयः ।।३७२।। ॥३७२॥ Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy