________________
वृषयः॥ ८
बन्धभेदाः
श्रीतच्वार्थ
हरि० ८ अध्या०
प्रकृतिः, कमनियानाष्टाः, तत्र
प्रकृतिस्थित्यनुभावप्रदेशास्तद्विधयः ।। ८-४ ॥ सूत्रम् ।। प्रकृत्यादयः कृतद्वन्द्वाः भवनविभक्त्या निर्दिष्टाः, तत्र प्रकृतिमौलं कारणं मृदिव घटादिभेदानामेकरूपपुद्गलग्रहणं,अतः प्रक्रियतेऽस्याः सकाशात् इति प्रकृतिः, क्रमनियमस्तु शेषविकल्पप्रसूतेरादौ प्रकृतिवन्धः, उपात्तस्यावस्थानकालपरिच्छेदात्ततः स्थितिबन्धः, सत्यां स्थितौ फलदानक्षमत्वादनुभावबन्धः, ततः कर्मपुद्गलपरिमाणलक्षणः प्रदेशबन्धः, सबन्ध इत्यत्र बन्धस्य प्रस्तुतत्वात् तच्छम्देन परामर्शः, विधिविधानं मेदस्तस्य विधयस्तद्विधयो-पन्धमेदा इत्येतद्भाष्यकृता विवृत्तमेव प्रत्येकममिसंबधता बन्धशग्ई,तत्र || यथोक्तप्रत्ययसद्भावे सति पुद्गलादानं प्रकृतिबन्धः-कर्मात्मनोरैक्यलक्षणः, ततश्चात्मनोऽध्यवसायविशेषादनाभोगपूर्वकादाहारपरिणामवत् कर्मपरिणतिः स्थित्यादिलक्षणा, तथा चोक्तमेव-"कर्मपुद्गलराशेः का परिगृहीतस्यात्मप्रदेशेष्ववस्थानं स्थितिः अध्यवसायनिवर्तितः कालविभागः,कालान्तरावस्थाने सति विपाकचिन्ताऽनुभावबन्धः, समासादितपरिपाकावस्थस्य बदरादेरिखोपभोग्यत्वात् सर्वदेशघात्येकद्वित्रिचतुःस्थानशुभाशुभतीव्रमन्दादिभेदेन वक्ष्यमाणः, ततस्तस्य कर्तुः स्वप्रदेशेषु कर्मापुद्गलद्रव्यपरिमाणनिरूपणं | प्रदेशबन्धः, अत्र च पारमार्षप्रवचनविदः कणिकागुडघृतकदुभाण्डादिद्रव्यविकारं मोदकमुदाहरति प्रकृत्यादिबन्धनिरूपणाय, तथाहि-चित्रः पुद्गलपरिणामः कर्तुरध्यवसायानुगृहीत इति भाष्यते, मोदको हि वातपित्तहरो बुद्धिवर्धनः, स मोहकारणं मारक इत्यनेकेनाकारेण परिणमते जीवसंयोगात्,तथा कर्मवर्गणायोग्यपुद्गलराशिरप्यात्मसम्बन्धात् कश्चिद् ज्ञानमावृणोति,अपरो दर्शनं स्थगयति,अन्यः सुखदुःखानुभवहेतुरित्यादि योज्यं, भूयस्तस्यैवाविपनगन्धरसादेरविनाशित्वेनावस्थानं स्थितिः, आह च-"इति कर्मणः प्रकृतयो मौल्यश्च तथोत्तराश्च निर्दिष्टाः। तासां यः स्थितिकालनिबन्धः स्थितिबन्ध उक्तः सः ॥१॥" तस्यैव च स्निग्धमधुरायेकद्वि
॥३७१।।
॥३७१॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org