________________
श्रीतत्वार्थहरि ८ अध्या०
॥३६९।।
Jain Education International
वटवृक्ष तिष्ठतीत्यादिषु निश्चय एव न स्याद्, अतः सामान्यं न्यायमाश्रित्य भाष्ये पदच्छेदद्वारेणार्थमाचष्टे, मिथ्यादर्शनादयः कर्म| यन्धस्याष्टप्रकारस्य सामान्यहेतवोऽभिहिता एव प्रथमसूत्रे, किमर्थं पुनः कषायग्रहणं भेदेनेति, उच्यते, कषायाणां प्रधान हेतुत्वप्रति|पादनार्थं, तत्रामर्षोऽप्रीतिर्मन्युलक्षणः क्रोधः, स्वगुणकल्पनानिमित्तत्वे प्रगतिर्मानः परातिसन्धाननिमित्तः छद्मप्रयोगो माया, तृष्णा| पिपासाऽभिष्वंगा स्वादलक्षणो लोभः, अत्रैककोऽनन्तानुबन्धी, संसारानुबन्धीत्यर्थः, एवमप्रत्याख्यानः प्रत्याख्यानावरणः संज्वलनश्चेति, त एते पापिष्टा बन्धहेतवः संसारस्थितेर्मूलकारणमाजवजवी भावलक्षणायाः कष्टतमाः प्राणिनामनपराधवैरिणो, यथोक्तमार्षे - “कोहो अ माणो य अणिग्गहीआ, माया य लोभो अ पवढमाणा । चत्तारि एए कसिणा कसाया, सिंचंति मूलाई पुणब्भवस्स ॥ १ ॥ | तहा- जं अइदुकूखं लोए जं च सुहं उत्तमं तिहुयणंमि । तं जाण कसायाणं बुढिक्ख यहेउ अं सर्व्वं ॥ २॥ एवं सकषायत्वं बन्धहेतुत्वेनोपात्तं, | हेतुश्च धर्मिणो भवति, स च धर्मी जीव इत्याह, कषायपरिणामो हि परिणंतुरात्मनो, न त्वपरिणामस्य सर्वगतस्याक्रियस्येति, यथाह| जीवस्तु कर्मबन्धनबद्धो वीरस्य भगवतः कर्त्ता । सन्तत्याऽनाद्यं च तदिष्टं कर्मात्मनः कर्तुः || १ || संसारानादित्वात् बन्धस्यानादिता | भवति सिद्धा । अत एव कर्म्म मूर्त्तं नामूर्त्तं बंधनमभीष्टम् ||२|| कर्मणो योग्यानिति, एतद् व्याचष्टे अष्टविध इत्यादिना, अष्टप्रकारे पुद्गलग्रहणे औदारिकवैक्रियाहारकतैजसभाषाप्राणापानमनः कर्मभेदेन पुद्गलपरमाणवो द्विप्रदेशादयश्चाणुस्कन्धाः यावदचित्तमहा| स्कन्धाः एतेषु ये योग्याः पुद्गलास्तेषामष्टविधे ग्रहणे सति विशिनष्टि - कर्म्मशरीरयोग्यानित्यर्थः, कम्मैवाष्टविधं शरीरमुक्तमतः | स्वार्थे कार्मणमिति (अण् ) प्रत्ययः, कर्मैव कार्मणं, कर्मसंघात इत्यर्थः, ते पुनरादीयमानाः पुद्गलाः कर्त्रात्मना किं नाम्नां कर्म्मणां प्रत्यया भवंति कारकतां प्रतिपद्यंते, क्व वा व्यवस्थिताः कुतो वा योग विशेषादित्याद्युपक्रम्येदमुक्तं नामप्रत्ययाः सर्वतो योगविशेषा
For Personal & Private Use Only
बन्धस्वरूपं
॥३६९॥
www.jainelibrary.org