________________
श्रीतत्त्वार्थ
बन्धखरूपं
हरि०
८ अध्या०
दग्रहणं, एष त्रिप्रकारः प्रमादो भवति, कषाया मोहनीये वक्ष्यन्त इति (१६६-१२) उक्तनिर्वचनाः कषायाः मोहनीयकमणीहैवाध्याये उपरिष्टाद् वक्ष्यन्ते प्रपंचतः सप्रभेदाः, योगस्त्रिविधः पूर्वोक्त इति त्रिप्रकारः पूर्वमुक्तः षष्ठेऽध्याये, एवमेते |पंच सामान्यप्रत्ययाः सर्वकर्मबन्धहेतव इत्यर्थः, एषां पंचानामपि सामान्यप्रत्ययानां सूत्रक्रमसन्निवेशिनां बन्धनिमित्तानां पूर्वस्मिन् सतीति वीप्सया नियतमुत्तरेषां भाव इति प्रतिपादयति, सति मिथ्यादर्शनप्रत्ययेऽवश्य भाविनोऽविरत्यादयः चत्वारः, सत्यामविरतौ त्रयः प्रमादादयः, सति प्रमादे कपाययोगौ, सत्सु कपायेषु योगा इति, योगप्रत्यय एव सति नेतरे चत्वार इत्यादि | विपरीतं भाव्यं यावत् न मिथ्यादर्शनप्रत्यय इत्येतदनेन प्रतिपादयति, उत्तरोत्तरभावे तु सर्वेषामनियम इति, अविरतिप्र-| मादकपाययोगेषु सत्सु न मिथ्यादर्शनप्रत्ययः, योगकषायप्रत्यययोः सतोः नावश्यमितरे त्रयः इत्यादि सुज्ञानमिति । एवमुपपादिते विस्तरेण बन्धहेतौ कर्मग्रहणमुच्यते
सकषायत्वाजीवः कर्मणो योग्यान पुद्गलान् आदत्ते ॥ ८-२॥ सूत्रम् ॥ ___ कपायाः क्रोधादयोऽनन्तानुबन्ध्यादिभेदाः सह कषायैः सकषायः तद्भावः सकषायत्वं तस्मात् सकपायत्वाद्धेतोः,हेतौ पंचमी, जीवः-द्रव्यात्मा कर्ता,स्थित्युत्पचिव्ययपरिणतिलक्षणः,सति च कर्तृत्वे कर्मबन्धफलानुभावौ,क्रियत इति कर्माष्टप्रकारं तस्य योग्या| नौदारिकादिवर्गणास्वष्टासु ज्ञानावरणादिकर्मयोग्याननन्तानन्तप्रदेशस्कन्धांश्चतुःस्पर्शान् , एतदेव च पुद्गलग्रहणेन स्पष्टयति, पूरणगलनलक्षणाः पुद्गलाः स्कन्धीभूतास्तानादत्ते, न पुनः क्रियामात्रं, कर्म हि पौद्गलमिष्टं रूपादिमदिति, आदत्त इति करोति कर्म आत्मप्रदेशेषु लगयति कर्मेति। अमुमेवार्थ भाष्येण स्पष्टयति,सकषायत्वादित्यादिना(१६७-३)पदच्छेदोऽपि हि व्याख्यांगमन्यथा |
॥३६८॥
॥३६८॥
Jan Education International
For Personal & Private Use Only
swww.jainelibrary.org