________________
श्रीतत्वार्थ
हरि. ८ अध्या०
उक्ता आश्रवा (१६६-२) इत्यादिना सम्बन्धमष्टमाध्यायस्याचष्टे, उक्तो लक्षणविधानाभ्याममिहितः 'कायवाङ्मनःकर्म योगः, स आश्रव' इत्यारभ्य सामान्यतोऽपि विशेषतश्च, सम्प्रति प्रस्तावायातं बन्धं वक्ष्याम इति, एतदुक्तं भवति-जीवा-|| बन्धहेतवः जीवाश्रवबन्धसूत्रक्रमेणाश्रवो व्याख्यातस्तस्यानन्तरो बन्धः, स लक्षणविधानाभ्यां अधुना व्याख्यायते, तदेतदनेन प्रतिपादयति । तत्प्रसिद्ध्यर्थमिदमुच्यते, तस्य सम्बन्धस्य प्रसिद्धिः शब्दार्थनिरूपणं तत्प्रसिद्धये-तत्प्रसिद्ध्यर्थ तनिरूपणार्थमुच्यते, इदमिति वक्ष्यमाणमिथ्यादर्शनादिपंचकं, ननु च बंधः प्रस्तुतः तद्धेतुकथनमसम्बद्धमिव लक्ष्यते, नासंबद्धं, यतो नाकारणा कार्यनिष्पत्तिः, बीजाद्धि प्रभवोऽकुरस्य, प्रथमतरं च कारणमुपाददते कार्यार्थिनो, बन्धश्च कार्य, कारणं तस्य मिथ्यादर्शनादि पंचकं प्रा प्रसिद्धमेवेति इयत्ता निर्धार्यते कारणानामनेन सूत्रेणेत्याह
मिथ्यादर्शनाविरतिप्रमादकषाययोगा बन्धहेतवः ॥८-१॥ सूत्रम् ॥ मिथ्यादर्शनादयो योगान्ताः पंच कृतद्वन्द्वाः प्रथमाबहुवचनेन निर्दिष्टाः, मिथ्यादर्शनं तच्चार्थाश्रद्धानलक्षणं अविरतिः-अनिवृत्तिः पापस्थानेभ्यो विरतिपरिणामाभावःप्रमादास्त्विन्द्रियविकथाविकटनिद्रालक्षणाः कषायाः क्रोधमानमायालोमाः अनन्तानुबन्धिप्रभृतयः योगो-मनोवाक्कायव्यापारस्वभावः, बन्धः कर्मवर्गणायोग्यस्कन्धानामात्मप्रदेशानां चान्योऽन्यानुगतिलक्षणः | क्षीरोदकादेरिव सम्पर्को बन्धः, हेतुर्निमित्तं कारणं, बन्धस्य हेतवो बन्धहेतवः पंच मिथ्यादर्शनादयः, सामान्यहेतवश्चैतेऽवगन्तव्याः सर्वकर्मबन्धस्य, विशेषहेतवस्तु ज्ञानावरणादेर्व्याख्याताः षष्ठे 'तत्प्रदोपनिहवा'दिना सूत्रकलापेनेति । भाष्यकारस्तु पदविच्छेदेन
॥३६५॥ |पंचापि सामान्यप्रत्ययान् दर्शयति-मिथ्यादर्शनमित्यादि(१६६-५)मिथ्या-अलीकमयथार्थ दर्शनं दृष्टिरुपलब्धिरिति मिथ्या
॥३६५॥
For Personal Private Use Only
www.jainelibrary.org