SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ श्रीतत्वार्थ हरि. ८ अध्या० उक्ता आश्रवा (१६६-२) इत्यादिना सम्बन्धमष्टमाध्यायस्याचष्टे, उक्तो लक्षणविधानाभ्याममिहितः 'कायवाङ्मनःकर्म योगः, स आश्रव' इत्यारभ्य सामान्यतोऽपि विशेषतश्च, सम्प्रति प्रस्तावायातं बन्धं वक्ष्याम इति, एतदुक्तं भवति-जीवा-|| बन्धहेतवः जीवाश्रवबन्धसूत्रक्रमेणाश्रवो व्याख्यातस्तस्यानन्तरो बन्धः, स लक्षणविधानाभ्यां अधुना व्याख्यायते, तदेतदनेन प्रतिपादयति । तत्प्रसिद्ध्यर्थमिदमुच्यते, तस्य सम्बन्धस्य प्रसिद्धिः शब्दार्थनिरूपणं तत्प्रसिद्धये-तत्प्रसिद्ध्यर्थ तनिरूपणार्थमुच्यते, इदमिति वक्ष्यमाणमिथ्यादर्शनादिपंचकं, ननु च बंधः प्रस्तुतः तद्धेतुकथनमसम्बद्धमिव लक्ष्यते, नासंबद्धं, यतो नाकारणा कार्यनिष्पत्तिः, बीजाद्धि प्रभवोऽकुरस्य, प्रथमतरं च कारणमुपाददते कार्यार्थिनो, बन्धश्च कार्य, कारणं तस्य मिथ्यादर्शनादि पंचकं प्रा प्रसिद्धमेवेति इयत्ता निर्धार्यते कारणानामनेन सूत्रेणेत्याह मिथ्यादर्शनाविरतिप्रमादकषाययोगा बन्धहेतवः ॥८-१॥ सूत्रम् ॥ मिथ्यादर्शनादयो योगान्ताः पंच कृतद्वन्द्वाः प्रथमाबहुवचनेन निर्दिष्टाः, मिथ्यादर्शनं तच्चार्थाश्रद्धानलक्षणं अविरतिः-अनिवृत्तिः पापस्थानेभ्यो विरतिपरिणामाभावःप्रमादास्त्विन्द्रियविकथाविकटनिद्रालक्षणाः कषायाः क्रोधमानमायालोमाः अनन्तानुबन्धिप्रभृतयः योगो-मनोवाक्कायव्यापारस्वभावः, बन्धः कर्मवर्गणायोग्यस्कन्धानामात्मप्रदेशानां चान्योऽन्यानुगतिलक्षणः | क्षीरोदकादेरिव सम्पर्को बन्धः, हेतुर्निमित्तं कारणं, बन्धस्य हेतवो बन्धहेतवः पंच मिथ्यादर्शनादयः, सामान्यहेतवश्चैतेऽवगन्तव्याः सर्वकर्मबन्धस्य, विशेषहेतवस्तु ज्ञानावरणादेर्व्याख्याताः षष्ठे 'तत्प्रदोपनिहवा'दिना सूत्रकलापेनेति । भाष्यकारस्तु पदविच्छेदेन ॥३६५॥ |पंचापि सामान्यप्रत्ययान् दर्शयति-मिथ्यादर्शनमित्यादि(१६६-५)मिथ्या-अलीकमयथार्थ दर्शनं दृष्टिरुपलब्धिरिति मिथ्या ॥३६५॥ For Personal Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy