________________
श्रीतत्वार्थ
हरि० ७ अध्या
IRIविशेषहेतवः
पकरणे देयस्यानादेरुपरि रचयति वर्णगन्धाढ्यमधस्तु निःसारमित्येवमादि तदभावाभिरुपधत्वमिति, निदानमुक्तलक्षणं स्वर्गमा-||
दाने फलनुषजन्मविषयं तत्प्राध्यमिसंध्यभावात् निर्जरार्थमेव केवलं निर्निदानत्वमिति । पाति-रक्षति संसाराहातारं दुर्गतिभयप्रपातादात्मानंदान चेति पात्रं तस्य विशेषः-अतिशयः प्रकर्षवृत्तिता, कीदृशी पुनः सेत्याह-सम्यग्दर्शनज्ञानचारित्रसम्पन्नतेति। तत्र सम्यक्त्वं | नैसर्गिकाधिगमिकक्षायिकादिभेदात् प्रकर्षाप्रकर्षवृत्ति, ज्ञानमप्यात्मपरिणामो ज्ञानावरणीयादिक्षयोपशमादिजन्यः, चारित्रमपि | सामायिकादिभेदाद् बहुप्रकारं, एमिः सम्पन्नता-युक्तता सम्यक्त्वादिपरिणामभाक्त्वमित्येवं विध्यादिविशेषाद् विशिष्टं विशिष्टतरं | विशिष्टतमं च मोक्षपर्यवसानं दानफलं भवति ॥
। श्रीहरिभद्रसूरिमारब्धायां श्रीयशोभद्रसूरिनिर्वाहितायां भाष्यानुसारिण्यां
॥ तत्वार्थटीकायां सप्तमोऽध्यायः समाप्तः ॥
॥३६४॥
॥३६४॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org