________________
30
श्रीतवार्थ-
हरि० ७ अध्या०
श्रद्धासंवेगानन्दप्रविकसितवदननयनोऽत्यर्थमहमनुगृहीत इत्येष विधिः। द्रव्यविशेष इत्यादि (१६४-१६) द्रव्यविशेषो द्रव्यस्यातिशयप्रकृष्टता, अनशब्देन चाशनं गृहीतम् , आदिशब्दात् पानखाद्यस्वाद्यवस्त्रपात्रदण्डकौघोपग्रहभेदोपधिपरिग्रहः, तदेषा- दाने फलममादीनां सारजातिगुणोत्कर्षयोगः सारः-अनस्याच्युतरसगन्धादित्वं जातिः शालिव्रीहिगोधूमादिका गुणाः सुरमिलव
विशेषहेतवः गस्निग्धमधुरत्वादयो सुरमित्वादयो वा एषां सारादीनां उत्कर्ष:-प्रकृष्टता तेन योगः-सम्बन्धः, एवं पानकादीनामपि, तथा वस्त्रपात्रदण्डकादीनां देशान्तरोत्पत्तिस्वरूपवर्णविशेषसंस्थानप्रमाणपरिमृजादिभेदेनोपयुज्यसारासारादयो वाच्याः,दातृविशेष इप्ति, | दातुर्विशेष:-अतिशयश्च परिणामजनितः, प्रतिग्रहीता गुणसम्पन्नो वक्ष्यमाणः, तत्रानसूया, क्षमावत्वं प्रसन्नचित्तता पुण्यवान
यस्य मे गेहमनुविशंति तपखिनः, न त्वक्षमा कार्या,प्रतिदिवसमेते मृगयन्ते निर्वेदिताः खल्वमीमिर्वयमिति, त्यागेऽविषाद इति, मादत्तेऽनादावविषादः,विषादो विषप्णताऽश्रद्धा,यतोऽतिबहु दत्तं मयेदं गृहेऽपि चिन्तनीयमेव प्रयोजनं, दवैवं चिन्तनीयमिदमेवैकं |मम स्वं यत् वतिनामुपयुक्तमिति, तथा अपरिभाविता परिभाविता-अनादरः न परिभाविता अपरिभाविता आदर इति, देश-| | कालप्राप्तस्य परिग्रहीतुर्वर्द्धमानश्रद्धाप्रापितेनादरेण दानं दित्सत इत्यादि, साधुदर्शने याचने वा दातुमिच्छतः परमया प्रीत्या प्रहृष्टतया योगः, एवं ददतो दत्तवतश्च कालत्रयेऽपि प्रहर्षयोगः, कुशलाभिसंधितेति भावकुशास्तु ज्ञानावरणादिकाशास्तान् लनातीति-छिनति अपनयतीति कुशलः, अभिसंधिः-अभिप्रायः कुशलोऽभिसंधिर्यस्य, कर्मनिर्जरापेक्षी, तद्भावः कुशलामिसंधिता, दृष्टफलानपेक्षिता दष्टफलं राज्यैश्यर्यसुखादि सर्व च सांसारिकं, स्वर्गाद्यपि दृष्टमेव, बहुशोऽनुभूतत्वात् , तन्नापेक्षते-न प्रार्थयते ||
॥३६॥ यः स रष्टफलानपेक्षी तश्रावो दृष्टफलानपेक्षिता, निरुपधत्वमित्युपधा-भावदोषो मायाकषायजनितो. यथा क्वचित् पटलकाधु
॥३६३॥
ग
Education
For Personal Private Use Only
www.jainelibrary.org