SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ प्रीतत्त्वार्थ हरि ७अध्या० दाने फलविशेषहेतवः फलमेव भवति, पारम्पर्यात् मुक्तिफलमपीति ॥ किंचेत्यनेन प्रस्तुतस्य दानधर्मस्य तरतमातिशयभेदप्रतिप्रच्या फलनिरूपणायाह विधिद्रव्यदातृपात्रविशेषात्तद्विशेषः ॥ ७-३४ ॥ सूत्रम् ॥ विम्यादयः कृतद्वन्द्वास्तेषां विशेषः-अतिशयः प्रकर्षाप्रकर्षयोगः तस्माद्विध्यादिविशेषात् धर्मविशेषः,धर्मश्च विध्यादिचतुष्टयापेक्षः, | तथाहि-विध्यादिचतुष्टयप्रकर्षाद्देशकालोपगनकल्पनीयदानादेकान्तेनैव निर्जरा प्रकर्षवर्तिनी,मन्दविध्यादिदानान्मंदा,मध्यादिदा नान्मध्या, एतदेव भाष्येण विविच्य दर्शयति-विधिविशेषादित्यादिना(१६४-१३) विधिविशेषादिति पंचम्याः प्रागुक्तं लक्षणं, | विधानं विधिः-विशिष्टप्रकारः तदतिशयात् पुण्यनिर्जरातिशयः, तदतिशयात् स्वर्गफलविशेषः मुक्तिफलप्राप्तिर्वा, द्रन्यमन्नादि | तद्विशेषात् , तथा दातृविशेषात् पात्रविशेषाच, तद्विशेष इति तच्छब्देन दानधर्मः परामृश्यते, दानं त्यागस्तदवाप्यो धर्मो दानधर्मः तस्य विशेषो-भेदः प्रकर्षाप्रकर्षलक्षणः, दानधर्मभेदाच्च फलभेदः, कारणानुरूपं कार्यनिष्पत्तेः, एवं समासतः सूत्रार्थो व्याख्यातः, सम्प्रति विशेषेण विवृणोति-तत्रेत्यादि, तत्र तेषु विध्यादिचतुर्पु विधिविशेषस्तावदयं,नामशब्दो वाक्यालंकृतो, देशकालसम्पदिति व्यपगतस्थावरजंगमजन्तुको देशो दातुः प्रतिगृहीतुश्चेति देशसंपत् , कालसम्पदपि न रात्रौ, दिवापि स्वार्थमुपक्लप्तेऽशनादौ उचिते भोजनकाले परिवेषिकावितश्चेतश्च कडुच्छुकोखापटलकोदंकिकाद्युपकरणव्यग्रकरासु संचरंतीषु पुरःपश्चात्काभावात् काल| सम्पत् , एवं वस्त्रपात्रादिदानमप्युचितकाल इति, श्रद्धा गुणवत्सु दानातिशेषो दत्तमेभ्यो बहुफलं भवति, सत्कारोऽभ्युत्थानासनप्रदानादिः प्रहर्षपुरस्सरः, देयगतस्तावत् क्रमो यो यत्र जनपदे प्रसिद्धः पेयादिरन्यो वा, वस्त्रादिषु पुनः रत्नाधिकक्रमः प्रकृष्टमध्यमजपन्यपात्रक्रमो वा, कल्पनीयत्वमुद्गमादिविशुद्धत्वमागमविहितभक्ष्याभक्ष्यपेयापेयग्राघाग्राह्यता च, आदिग्रहणात् स्वयमेव स्वहस्तेन ॥३६२॥ ॥३६२॥ Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy