________________
श्रीतत्त्वार्थ
दानस्वरूपं
हरि०
७अध्या०
विधसूत्रार्थप्रतिपादनाय आत्मपरानुग्रहार्थमित्यादिभाष्येण विशुद्धबुद्धिमत्त्वं दातुराख्यायते, श्रद्धादिगुणयोगः उपायः प्रतिग्रहीता | पात्रविशेषः देयं सम्पञ्चेति, आत्मा च परश्चात्मपरौ तयोरनुग्रहः आत्मपरानुग्रहः सोऽर्थो यस्य तदात्मपरानुग्रहार्थम्, अनुग्रहः| उपकारः, स च विशुद्धया धिया ददतः कर्मनिर्जरणादिफलः समस्तीत्यनुग्रहग्रहणाद्विशुद्धबुद्धित्वं लभ्यते, अन्यथा अनुग्रहाभास एव स्यात्, तच्च निर्जरादिफलमुपायाहते न सम्पद्यत इत्युपायपरिग्रहः, देशकालपुरुषावस्थाः संप्रेक्ष्यागमानुसारिणा सता प्रमोदनिर्भरेण चेतसा रोमांचकंचुकोपगूढवपुषा चाभ्युत्थानासनप्रदानवन्दनचरणप्रमार्जनसत्कारपूर्वकं समाधायैकाग्रमित्यादिरूपा याः, आत्मेति दाता, श्रद्धाशक्तिसत्त्वक्षमाविनयवितृष्णतागुणसम्पन्नो ददामीत्येवंपरिणतः, परपदोपादानात् प्रतिग्रहीता ज्ञानक्रियान्वितो विजितेन्द्रियकषायः स्वाध्यायतपोध्यानसमाधिभार मूलोत्तरगुणसंपदुपेतः पात्रमिष्यते, स्वस्य द्रव्यजातस्यानपानवस्त्रादेरित्यनेन | देयनिर्देशः, स्वस्येत्यात्मीयस्य लोकविरुद्धचौर्यव्यवहाराद्यनुपात्तस्य द्रव्यजातस्येति द्रव्यविशेषस्य पुद्गलद्रव्यस्य जीवद्रव्यस्य |च, पुद्गलद्रव्यस्यापि न सर्वस्य कुठारहलदानशस्त्रादेरनेकपाणिदुःखहेतोः, किं तर्हि ?, अन्नपानवस्त्रादेः पुद्गलद्रव्यस्य, आदिग्रहणादौधिकौपग्रहिकसकलोपकरणपरिग्रहः, सर्वश्चाहारो भैषजवसत्योषधि, साधोः परत एव लभ्यो भवत्युद्गमोत्पादनैषणाशुद्धः, सच दातुः प्रतिग्रहीतुश्चोपकारको निर्जराफलत्वात्, जीवद्रव्यस्यापि न सर्वस्य, दासदासीबलीबवाहनादेः स्वयमेव दुःखितत्वात् क्लिश्यमानत्वात् , यथाह-"जंणय दुहियं णय दुक्खकारणं होइ दिण्णमण्णेसिं । वट्टइ अणुग्गहे उं विहिज दाणं असावजं ॥१॥" द्विपदमपि गृहिणा प्रव्रज्याभिमुखं प्रव्रज्याहं पुत्रदौहित्रभ्रातृपत्नीप्रभृति स्वामिना दत्तमनुज्ञातं प्रवाज्यम् ।। एवमुक्तेन न्यायेन देशकालोपपत्रमचेतनं सचेतनं वा द्रव्यजातं पात्रे गुणवति देयम् , आधाकाद्यपि देशकालाद्यपेक्षं पात्रविनियुक्तं स्वर्गसुकुलप्रत्यायाति
॥३६॥
|॥३६१॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org