SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ श्री तत्त्वार्थहरि० ७ अध्या० ॥३६०॥ Jain Education International ननु सम्यक्त्वातीचार पंचकसंभवात् सप्ततिरतीचाराः स्युरिति, उच्यते, सम्यक्त्वं हि मूलप्रासादपीठरचनावदाधारभूतमणुव्रतादीनाम् | अतस्तस्याधारत्वान्न व्रतशीलेष्वतीचारग्रहणं, तदेतेष्वित्यादिना (१६४-५) उपसंहरति, तस्मादपायदर्शनादेतेषु पंचपष्टिष्वतीचारेषु प्रमादो न कार्यः, अप्रमादस्तु न्याय्य इति । अत्राहोक्तमित्यादिना सम्बन्धमाचष्टे, अत्र व्रतेषु व्रतिषु च व्याख्यातेषु तदनुवादद्वारेण दानं प्रामोति, उक्तानि अमिहितानि लक्षणतो व्रतानि व्रतिनश्च तदनन्तरमुद्दिष्टमथ दानं किमिति, सद्वेधकम्मश्रवाभि धानक्रममाश्रित्य प्रश्नयति दानं किंलक्षणमिति, तद्दानलक्षणं वक्तुकाम अत्रोच्यत इत्याह अनुग्रहार्थं स्वस्यातिसर्गों दानमिति ।। ७-३३ ॥ सूत्रम् ॥ अपरे तूक्तं सम्बन्धमाचक्षते, अतिथिसंविभागे चोदनात् दानधर्मोऽगारिणः शेषधर्मवच्चोदितः, तत्र किंलक्षणं दानमित्याहअनुग्रहार्थे स्वस्यातिसर्गो दानं, अनुगृह्यतेऽनेनेति अनुग्रहः – अन्नादिरुपकारकः प्रतिग्रहीतुः, दातुश्च प्रधानानुषंगिकफलः, | प्रधानं मुक्तिरानुपंगिकं स्वर्गप्राप्तिः प्रच्युतस्येह सुकुलप्रत्यायातिविभवबोधिलाभादिः, सोऽर्थः - प्रयोजनं यस्य तदनुग्रहार्थम् - अनुग्रहप्रयोजनम्, अर्थशब्दस्य प्रयोजनवाचित्वात्, स्वस्येति स्वशब्द आत्मात्मीयज्ञातिधनादिषु वर्त्तते, इहात्मीयवचनः प्रयुक्तः, | स्वं - आत्मीयं न्यायेन स्वीकृतं पूर्वजक्रमागतं न्यायवृत्या वा स्वसामर्थ्योत्पन्नं तस्यातिसर्गः - त्यागः, न चोज्झनमात्रं त्यागशब्देनोच्यते, किं तर्हि १, दानं, विशिष्टसम्प्रदानकमित्यर्थः तच्च सम्प्रदानं द्विविधमर्हन्तो भगवन्तः साधर्मिकाच, तत्रार्हद्भयो दीयते पुष्पवलिधूपचामरातपत्र कलश ध्वजचन्द्रातपककिरीटाभरणादिः, साधर्मिकास्तु द्विप्रकाराः साधवः श्रावकाच, साधंदो | यथोक्तज्ञानदर्शनक्रियानुष्ठानसम्पन्नाः, श्रावकाश्च सम्यक्त्वाणुव्रतादिद्वादशविधधर्म भाजस्तेभ्यो दानमन्नादेर्देशकालोपपन्नमिति, एवं For Personal & Private Use Only दानलक्षणं ॥३६०॥ www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy